पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३. दिग्वर्ग:] दाक्षिणात्यव्याख्योपेतः 7 विशब्द: पक्षिवचनः, तेऽस्मिन् यान्तीति वा, ' या प्रापणे ' C. K1, W‡; U, Y add— 9 विहायसोऽपि नाकोऽपि रपि स्यात्तदव्ययम् | तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम् || शब्दगुण: Y. इति व्योमवर्गः (पा.) द्योदिवौ - सुरवर्त्म खम् । अन्तरिक्षमित्यत्र विशेषः । अमरवार्त्तिककारेण वर्णनिर्देशनायां दीर्घकारान्तरिक्षशब्द इति प्रत्यपादि । अन्तरीक्ष्यते जगदत्रेत्यन्तरीक्षम् । द्यावापृथिव्योरन्तरीक्ष्यत इति वा । वेदे तु ह्रस्वेकारो दृश्यते । तत्रापि छान्दसमेव ह्रस्वत्वमिति । वियद् विष्णुपदं — विहायसी | वैजयन्त्यामदन्तविहायसशब्द: कथितः । ‘वायुवर्त्म विहायसम्' इति (पृ. १७, श्लो. १) । आकाशनामानि ॥ 'विहायसोऽपि नाकोऽपि गुरपि स्यात् तद्व्ययम् । तारापथोऽन्तरीक्षं च मेघद्वारं महाबिलम् ॥' इति व्योमवर्गः ५१ 8 इत्याकाशनामानि D2, I, एतानि च ॥ १ ॥ ३. दिग्वर्गः दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः । प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १ ॥ उत्तरा दिगुदीची स्याद् दिइयं तु त्रिषु दिग्भवे । (वि.) दिश इति – प्राचीयं दक्षिणेयमिति दिश्यते दिक्। दिशत्यवकाशमिति चा। ‘दिश अतिसर्जने' । कमुदकं स्कुभ्रातीति कक्कुप् । 'स्कुभु विस्तारे' । कं वायुं स्कुनातीति वा । काशते काष्टा । 'काट दीप्तौ' । अश्नुते आशा । 'अशू व्याप्तौ संघाते च' । हरन्त्यनया अप्रतीतमिति हरित् । 'हृञ् हरणे' । दिङ्नामानि ॥ प्रागञ्चति सूर्यः प्राची । अवागञ्चति दक्षिणायनेन सूर्य इति अवाची । अपाचीति वा पाठः । प्रति पश्चादञ्चति सूर्यः अस्तमय इति प्रतीची । उत्तरमञ्चति सूर्यः उत्तरायणेनेति उदीची ।