पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५० अमरकोशः ‘पद्मोऽस्त्रियां महापद्मः शङ्खो मकरकच्छपौ । मुकुन्दकुन्दनीलाञ्च खर्वश्च निधयो नव || ' इति तल्लिङ्गे तत्संख्यायां च हारावलिः ॥ ७३-४ ।। इति श्रीवत्सनृसिंहसूरिसुतमल्लिनाथसूरिविरचितेऽमरपदपारिज/ते 1 वरश्च A1. 2 B3 adds तन्नामसु. 3 हारावली Bs, Ba. [प्रथमकाण्ड: स्वर्गवर्गः 4 °नरसिंह ° A1. २. व्योमवर्गः घोदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् । नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥ १ ॥ वियद् विष्णुपदं वा तु पुंस्याकाशविहायसी । इति व्योमवर्गः (वि.) द्योदिवाविति — दीव्यतीति द्यौः । दिवि च । द्वे स्त्रियाम् । न भ्रा- जते अभ्रम् । 'भ्राजू दीप्तौ । विशेषेण अवति अवकाशदानेन व्योम' । 'अव रक्षणे ' । पुष्णातीति पुष्करम् । 'पुष पुष्टौ ' । पुष्कमुदकं रातीति वा पुष्करम् । ‘रा दाने ' । अम्बते शब्दायते इत्यम्बरम् । 'अबि शब्दे ' । मेघैर्न भातीति नभः । 'भा दीप्तौ ' । अन्तः ऋक्षाणि यत्त्र अन्तरिक्षम् । द्यावापृथिव्योरन्तरीक्ष्यत इति वा । 'ईक्ष दर्शने ' । गच्छन्त्य खगा इति गगनम्' । 'गम्ऌ गतौ ' । न विद्यतेऽन्तो यस्य तदनन्तम् । सुराणां वर्त्म मार्गः सुरवर्त्म | खन्यते खम्' । 'खनु अवदारणे । वियच्छति न विरमतीति वियत्' । यम उपरमे ' । विष्णोः पदं विष्णुपदम् । आ समन्तात् काशन्ते सूर्यादयोऽत्र आकाशम् । न काशते वा । 'काट दीप्तौ' । विजहाति सर्व विहायः । विहायाश्च । 'ओहाक् त्यागे'। 'ओहाङ् गतौ ' 8 ॥ १ ॥ 6 1 द्यौश्च K1; द्यौश्च द्यौश्च द्योदिवौ, द्वन्द्वसमासः, ओकारान्तवकारान्तस्त्रीलिङ्गौ B2, C; इमावोकारान्तवकारान्तौ I; दिवु कीडेत्यादि धातु: W.. 2 अमूर्तत्वात् D1. एन विष्णुना उ ऊर्ध्वं मीयते आक्रम्यत इति व्योम, 'माङ् माने' C. यस्येति A, I, W1. 5 आद्यन्ताक्षरग्रहणाद् एवं गगमिति भवति । गच्छन्तः खगाः अस्मिन् नीयन्त इति गगनम् | ‘गम्ऌ गतौ ' ‘णीञ् प्रापणे ' B2, C. 6 खन्यते ज्ञानं नीरूपत्वात् D1. 3 विशेषेण 4 ° ईक्षणं