पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४४ अमरकोशः 'महाबलः सततगः शरण्युर्मृगवाहनः । ध्वजप्रहरणो धूलिध्वजः पूञ्च प्रकम्पनः || ' एतानि च ॥ ६२ - ३॥ प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ।। ६४ ।। हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले । 4 उदानः कण्ठदेशे स्याद् व्यानः सर्वशरीरगः ।। ६५ ।। शरीरस्था इमे (वि.) प्राण इति – प्रकर्षेण बहिरानयतीति प्राणः । अधो नयतीति अपानः । सर्वत्र आनयतीति समानः । उद् ऊर्ध्वम् आनयतीति उदानः । विनयतीति व्यानः । ‘णीञ् प्रापणे' । प्राणयति अपानयति समानयति उदानयति व्यानयतीति वा यथाक्रमं वक्तव्यः । एते पञ्च क्रमेण हृद्गुदनाभिकण्ठसर्वदेहस्थवायुनामानि ।। ६४-५ ।। 1 Verse included in most MSS. U adds ' णींञ् प्रापणे. आनयति B2, C. "देहस्थितवायुनामानि D1. [प्रथमकाण्डः (पा.) प्राणो - शरीरस्था इमे । प्राणादयः पञ्च शरीरवायवः । अनुक्तम्- 'झञ्झावातः सवृष्टि: स्यात्' । वृष्टिसहितवायुनाम || 'वात्या [वातस्तु मण्डली' । मण्डलाकारवातनाम । आन्ध्रभाषायां 'सुडिघाली' । 'गोगन्धनः पुरोवातः' । पुरोवायुनाम । 'यदुरुगाली ' । 'परुष: स्यादिरिङ्गणः' । चण्डवातनाम' । 'छिंदुनवटि- 6 गालि' | ‘"मूर्ध्नि वातः किंचुलुक : ' । उपरिवातनाम । ईन्दिगालि किंचुलुकमु' । ' मध्यमः स्वेदचूषक: ' । 'समवातः स्वेदचूषक: स्यात् । 'समगालि ' ॥ ६४–५ ।। 3 ' विसरोटि' A1. 1 वातः झंझावातः स्यात् A1. 5' ह्रींदि' B3. मृदुवात: A1. 2 बहिरायाति W2; अनन्ति अनेन D1; 4 मातीति K3; समम् 6 एतानि 3 अपानयति B2, K3, W2. 5 विविधेषु जीवात्मानं प्रज्ञामानयतीति C; विशेषेण नयति D.. 2 वातः इरिङ्गणः स्यात् A1. समवायुनाम Bs, B4. 6 रंहस्तरसी तु रयः स्यदः । जवो ऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ।। ६६ ।। सत्वरं चपलं तूर्णमविलम्बितमाशु च ।