पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१. स्वर्गवर्गः] दाक्षिणात्यव्याख्योपेतः ४३ (पा.) प्रचेताः – अप्पतिः । वरुणनामानि । 'अम्बुकान्तारोऽम्बुभूषणः स्यान्म-- करवाहनः । एतानि च ॥ श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥ ६२ ॥ वृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः | समीरमारुतमरुजगत्प्राणसमीरणाः || ६३ ॥ नभस्वद्वातपवनपवमानप्रभञ्जनाः । (प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः ॥) 6 (वि.) श्वसन इति – श्वसन्ति अनेन प्राणिनः श्वसनः । श्वस 'प्राणने ' । स्पृशतीति स्पर्शनः । 'स्पृश संस्पर्शने' । वातीति वायुः । 'वा गतिगन्धनयोः' । मातरि आकाशे वयति मातरिश्वा' । 'टुओश्वि गतिवृद्धयोः' । सदा गतिः यस्य सदागतिः । [ पृषदाख्यो मृगोऽश्वो यस्य पृषदश्व: । पृषतां विन्दूनाम् अश्व इति वा । गन्धस्य बहः गन्धवहः । 'गन्धं 'वहतीति वा । 'वह प्रापणे '। अनित्यनेन अनिल: ' । 'अन प्राणने' । आशु गच्छतीत्या शुगः । समीरतीति' समीरः । 'ईर गतौ' । अनेन कुपितेन 10 म्रियते 1 इति मारुतः " | मरुञ्चैवम् । जगतां प्राणः जगत्प्राणः । सम्यग् ईरयति समीरण: 4 | 'ईर प्रेरणे' । नभोऽस्यास्तीति नभस्वान्" । वातीति वातः । ‘वा गतिगन्धनयोः' । पवत इति पवनः । 'पूङ् पवने' पुनीते वा । पवमानञ्च । 'पूञ् पवने' । प्रभञ्जयति 16 शाख । दिकं प्रभञ्जनः । 'भञ्जो आमर्दने'। प्रकम्पनो महाबलः झञ्झामारुतः सवृष्टिक: 1 7 | एतानि वायुनामानि || ६२ - ३॥ 3 नान्त: D.. पृषत् 5 गन्धयत इति गन्धम् D1. 8 ‘ गम्ल गतौ ' 10 कुपिते K2, C, W2. 11 म्रियन्ते Da,. 12 अनेन जीववर्गा मा रुदन्ति न म्रियन्ते इति C; Di, I 13 जगदिति प्राण इति पदच्छेदपक्षे गच्छतीति जगत्, प्राणन्ति 16 प्रभनक्ति 14 ईरितुं गन्तुं शीलम् अस्य D1. 15 तत्स्वामित्वाद्वा D.. 18 मारुत° B1, Ks, W2. 17 वृष्टयाकुलश्च W2, Y. 1 निश्वासे B2, C, W2. 2 D1 adds संचरते. मृगोऽश्वो वाहनं यस्य C; पृषन्ति जलकणा: अश्वाः यस्य Di. 6 वाहयति A, K2, W2. D1, W1. K1, K3; D1 adds लोक:. add 'मृङ् प्राणत्यागे. अनेन प्राण: D.. U, W2; B1, C add मर्दयति. 7 न विद्यते निलः निलयं स्थानं यस्य C. 9 समीर्ते B1, W1. (पा.) श्वसनः – प्रभञ्जनाः । वायुनामानि । जगदिति तस्यैव नामान्तरं स्यात् । ‘जगत् स्याद् विष्टपे क्लीबं वायौ ना जङ्गमे त्रिषु' इति रुद्रः । प्राण इत्यपि नामान्तरं स्यात् । 'हृदि स्थितानिले जीवे बले प्राणः प्रकीर्तितः' इति रुद्रः ।