पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अमरकोशः [ प्रथमकाण्डः 6 (वि.) राक्षस इति – रक्ष एव राक्षसः । कुणपं शवमत्तीति कौणपः । कोणं पातीति वा । क्रव्यं मांसमत्तीति क्रव्यात् । क्रव्यादश्च । 'अद् भक्षणे' । अस्रं 'रक्तं पिबतीति अस्रपः । 'पा पाने'। अश्रप इति पाठे भक्ष्यमांसं न श्रपयति न पचतीत्य- श्रपः । 'श्री पाके' । असुर एव आसुरः । असून् प्राणान् रातीति वा । 'रा आदाने ' । आशृणातीति आशरो वा । 'शू हिंसायाम् ' | रात्रौ चरतीति रात्रिंचरः । रात्रिचरश्च। 'चर गतिभक्षणयो: ' । 'कर्बुरवर्णत्वात् कर्बुरः । कृणाति' हिनस्तीति वा कर्बुरः । 'कृ हिंसायाम्' । निकषाया' आत्मजः निकषामजः । निकषानाम रक्षोमाता । यातूनि यातनाः तीव्रवेदना धीयन्त अस्मिन्निति यातुधानः । यातुना धीयतेऽत्रेति वा । विरुद्धलक्षणेन पुण्यवान् जनः पुण्यजनः' । निर्ऋतेरपत्यं नैर्ऋतः । याति रक्षांसि यातु । यातुशब्दः उकारान्तः । 'या प्रापणे' | रक्ष्यतेऽस्मात् जगदिति रक्ष : 12 । 'रक्ष पालने ' । नैरृत- नामानि 13 ॥ ६०–१॥ ४२ 2 • ° तद्भक्षणात् कोणप: D1, W1. 3 रुधिरं D2, I,. आशम् अस्मै तदर्थं राति गृह्णाति हिंसतीत्यर्थः । 5°दशनत्वात् Y. 6 कृणोति Y. 7 निकषतिः 1 आसुर: इति पाठान्तरम्. K1, U, W1, Y. 4 अशितमेव तस्मादाशरः, 'रा हिंसायाम् ' C. हिनस्तीति निकषा राक्षसमाता D.. 8 यात्विति नाम धीयते अत्रेति वा W; यातून् यातनाः प्राणिषु धत्ते सृजतीति ! 'डुधाञ्' C. 9 विपरीतलक्षणया पापजन इत्यर्थ: D.. 10 दिक्पालस्य D1; निर्ऋत्यां दिशि वर्तमानो वा नैर्ऋत: D.. 11 यातयति व्यथयति D1. 12 रक्षत्यात्मानमिति रक्ष: D1; सकारान्तं नपुंसकम् B2, D1, I. 13 निर्ऋति नामानि D2, K1, K2, Y. , (पा.) राक्षस:- निकषात्मजः । कीकसात्मज इति पाठान्तरम् । यातुधानः- यातुरक्षसी । नैर्ऋतनामानि । अनुक्तम् – 'पलंकषो रात्रिमटो राज्यटो जललोहितः । एतानि च ।। ६० - १॥ 9 प्रचेता वरुणः पाशी यादसांपतिरप्पतिः । (वि.) प्रचेता इति – प्रकृष्टं चेतोऽस्य प्रचेताः । वृणोति पाशैरिति वरुणः । 'वृञ् वरणे ' । पाशोऽस्यास्तीति पाशी । 'यादसां पतिः । अपां पति: अप्पतिः । उभयत्र षष्ट्या अलुग्विकल्पः । वरुणनामानि ॥ 1 हृदयम् C. 2 वृण्वन्ति वरादीनमुमिति D1. 4 जलचराणां C; जलग्राहाणां Y; जलजन्तूनां D1. पाशयोगात् पाशी D1.