पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१. स्वर्गवर्गः] दाक्षिणात्यव्याख्योपेतः ४१ विच्छिन्नज्वालनाम । ‘भूतिर्भसितभस्मनी । क्षारो रक्षा' च ' । भस्मनामानि || 'दावस्तु दवो वनहुताशने ।' वनवह्निनामनी ॥ ५८ 1 त्रिषु B3, Bi. 2 ‘ स्फुलिङ्गो' इत्यॆव मुद्रितपुस्तके दृश्यते. 3 रूक्षा B3. धर्मराजः पितृपतिः समवर्ती परेतराट् । कृतान्तो यमुनाभ्राता शमनो यमराड् यमः ।। ५९ ।। कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः । (वि.) धर्मराज इति – धर्मस्य राजा धर्मराजः । पितॄणां पतिः पितृपतिः । समं वर्तितुं शीलमस्येति समवर्ती । 'वृतु वर्तने' । परेतेषु राजते परेतराट् । 'राजू दीप्तौ' । कृतः अन्तो' येन कृतान्तः । यमुनाया भ्राता यमुनाभ्राता । शमयतीति' शमनः । 'शमु उपशमे' । यमेन राजते यमराट् । यमयति नियतिं यच्छतीति 10 यमः । < .6 'यम उपरमे'। “कलयतीति कालः । 'कल किल क्षेपे' । दण्डं धरति धारयतीति दण्डधर : 12 । श्राद्धस्य देवः श्राद्धदेवः । विवस्वतोऽपत्यं वैवस्वतः । अन्तं करोतीति अन्तकः । एतानि यमनामानि ॥ ५९ ॥ नाश:. 1 यथापराधदण्डदानेन D1. 2 D1 adds कव्यवाहनादीनां. 3 समं वर्तते A, B1; सम्यग् वर्तते U. 4 W, adds प्रेतेषु; श्मशानेषु C; परेता मृतास्तेषां राजा D.. नद्या: D1. 7 प्राणिनः D1. 5 D1 adds 8 नियमादिना C; 'राजू दीप्तौ' I. 9 नियच्छति A, I. 10 प्रजासंयमनात् यमः, मृत्यु प्रज्वरप्रभृतयोऽस्य किंकराः, 11 कालयति तेषु राजेति यमराट् D1; यमुनया सह यमलत्वे जातत्वाद्वा यमः Dr. D2, I, K1, K2, K, U; धर्माधर्माणां आयुषां च संख्यानं करोतीति काल: । 'कल शब्द- संख्यानयो: ' D; वेलास्वरूप इत्यर्थ: C. 12 कालदण्डाख्यस्य धर: D1; 'धृ धारणे' I. 13 ' डुकृञ् करणे' I; एतानि धर्मराजनामानि A, I. 6 (पा.) धर्मराजः – अन्तकः । यमनामानि । 'शामित्रेयः कालकण्ठो दण्डी महिषवाहनः । एतानि च ॥ ५९ ॥ राक्षसः कौणपः क्रव्यात् क्रव्यादोऽस्रप आशरः ॥ ३० ॥ रात्रिंचरो रात्रिचरः कर्वुरो निकषात्मजः । यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी ॥ ६१ ॥