पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्डः । (वि.) और्व इति – ऊर्वतीत्यूर्वः । 'उर्वी तुर्वी धुर्वी हिंसायाम् ' । तस्यापत्यं और्वः । बडवायां भवः बाडवः । बडवायाम् अनल: बडवानलः | बडवाग्निनामानि ॥ ज्वलतीति ज्वालः । 'ज्वल दीप्तौ' । कीलति पक्ष्यादिगतिं कीलः । 'कील बन्धने' । एतौ शब्दौ द्वयोः स्त्रीपुंसयोः । अर्च्यते अर्चिः । सान्तः । 'अर्च पूजायाम्' । स्त्रीपुंनपुंसकेषु अर्चिःशब्दः । प्रायेण अर्चिःशब्दः स्त्रीत्येके । हन्यते अनया हेतिः । 'हन हिंसागत्योः' । हिनोति वर्धते वा । ' हि गतौ वृद्धौ च ' । हेतिशब्दः सूर्यवह्निदीप्ति- पर्याये स्त्रीलिङ्गः । आयुधपर्याये द्वयोः । शाखति वह्नौ शिखा । 'शा व्याप्तौ । अग्निज्वालानामानि || ५७ ॥ ४० (पा.) और्वस्तु बाडबो बडबानलः । समुद्राग्निनामानि । अनुक्तम्- 'सहरक्षा द्रुमाशनः’ । अरण्याग्निनामनी ॥ वह्नेर्द्वयोः– स्रियाम् । अग्निज्वालानामानि | स्त्रियामिति अर्चिरादिविशेषविधिः । अर्चिष: पश्य, हेती: पश्य, शिखाः पश्य ॥ ५७ ॥ 1 वह्नि' B3. त्रिषु स्फुलिङ्गोऽग्निकण: संतापः संज्वरः समौ ॥ ५८ ॥ ( उल्का स्यान्निर्गता ज्वाला भूतिर्भसितभस्मनी । क्षारो रक्षा च दावस्तु दवो वनहुताशनः ।।) (वि.) त्रिष्विति – स्फुलतीति स्फुलिङ्ग: । 'स्फुल संचलने' । अग्नेः कणः अग्निकणः । अग्निकणनाम | संतापयतीति संतापः । 'तप संतापे'। संज्वरतीति संज्वरः । ‘ज्वर रोगे'। अग्निदाहनामनी । निर्गता ज्वाला अस्य उल्का । अपगतज्वालाग्निनाम | भूतिः भसितभस्मनी क्षार: रक्षा । एतानि भूतिनामानि | दावः दवः वनहुताशनः । दवाग्निनामानि ॥ ५८ ॥ 1 Found in A, B1. 2 स्फुकारेण लिङ्गतीति D; स्फुरतीति W2, Y. तापयति B2, C; व्याप्नोति B2. 3 सम्यक् (पा.) त्रिषु स्फुलिङ्गोऽग्निकण: | वह्निकणनामानि | आबन्तताप्रसिद्धयर्थं त्रिषु स्फुलिङ्गेति केचित् पठन्ति । 'त्रयी' स्फुलिङ्गाऽपुञ्जो ना खड्गाङ्गश्चाथ संज्वरः' इति वैजयन्त्यामपि (पृ. ११, श्लो. ३१) तथैव पठिता। संतापः संज्वरः समौ । दाहनामनी । अनुक्तम् – 'रेटि: स्त्री रटितं वह्नेः' । अग्निरटितं रेटिरित्युच्यते । तद्धूनिनाम। ‘धूमः स्यान्नमतस्तरिः' । धूमनाम । 'उल्का स्यान्निर्गता ज्वाला' । निर्गतज्वाला उल्का स्यात् ।