पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३८ अमरकोशः [प्रथमकाण्डः बर्हिः शुष्मा कृष्णवतर्त्मा शोचिष्केश उषर्बुधः । आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥ ५५ ॥ रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः | हिरण्यरेता हुतभुग् दहनो हव्यवाहनः ।। ५६ ।। सप्ताचिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः | शुचिरष्पित्तम् (वि.) अग्निरिति – 1 अङ्गति 2ऊर्ध्वं गच्छतीत्यग्निः । 'अगि ऊर्ध्वगमने' । विश्वानरस्य ऋषेरपत्यं वैश्वानरः । हव्यं 'वहतीति वह्निः । 'वह प्रापणे ' । होत्रस्य * हविषो वीतिः अश्व इव वहनात् वीतिहोत्रः । अथवा वीतयोऽश्वा होत्रं हव्यमस्येति वीतिहोत्रः । वीतिः ‘आर्याणामशनं होत्रं होमसाधनं तदस्यास्तीति वा वीतिहोत्रः । धनं 'जयतीति धनंजयः । 'जि जये' । कृपीटस्याम्भसो योनिः कृपीटयोनिः । कृपीटं योनिरस्येति वा । ज्वलतीति ज्वलनः । 'ज्वल दीप्तौ' । जातं विद्यते इति जातवेदाः । ' विद सत्तायाम्' । जातं शुभाशुभं वेत्तीति वा । ' विद ज्ञाने' । वेदो हिरण्यम् अस्मात् 'जातमिति वा । तनूं न पातयति 10 तनूनपात् । 'पत्ऌ गतौ ' । बृंहति वर्धते आज्येनेति बर्हिः। ‘बृहि वृद्धौ’। शोषयतीति शुष्मा 1 2 | बर्हाः दर्भाः शुष्म स्थानमस्येति बर्हिः- शुष्मा 3 | दर्भस्थानपक्षे एकनाम | कृष्णं वर्त्म मार्गोऽस्य कृष्णवर्त्मा | शोचींषि 14 केशाः यस्य सः शोचिष्केशः। 15 उषसि बुध्यते प्रकाशते उषर्बुधः । 'बुध अवगमने'। 16 आश्रयम् अश्नातीति आश्रयाशः । 'अश भोजने' । आश्रयाशी इति वा पाठः | बृहन्तः भानवो यस्य बृहद्भानुः । कृश्यति तनूः स्वमान्द्यात् कृशानुः ” । 'कृश तनूकरणे' । कृशेन मन्थकाष्ठेन उत्पन्न इति वा । पुनातीति पावकः । 'पूञ् पवने’। अनिति वर्धतेऽनेन अनलः । 'अन प्राणने' । काष्ठादिभिः अलं पर्याप्तिः नास्ति अस्येति वा । लोहिताख्यो18 मृगः 19अश्वोऽस्येति लोहिताश्वः । वायोः सखा वायुसख: 2°। वायुः सखा अस्येति वा । शिखा अस्यास्तीति शिखावान् । आशु शोषयितुमिच्छतीति आशुशुक्षणिः । हिरण्यं रेतोऽस्य हिरण्यरेताः । हुतं 2 भुङ्क्ते हुतभुक् । 'भुज पालनाभ्यवहारयोः' । दहतीति दहनः । ‘दह भस्मीकरणे' । हव्ये हव्यविषये वाहते यतते इति हव्यवाहनः । 'वाह प्रयत्ने' । हव्यं वहतीति वा । 'वह प्रापणे' । सप्त अर्चीषि यस्य सः 22 सप्तार्चिः | दाम्यति ग्लापयति शमयति 2 दमुनाः । सकारान्तः । 'दमु उपशमने' । शोचयति शत्रूनिति 24 शुक्रः । 'शुच शोके' । शुचं रातीति वा । ‘रा आदाने' । शुक्रं रुद्र- रेतोऽत्रास्तीति वा । चित्रा भानवो यस्य चित्रभानुः । विभैव 26 ' वसु धनमस्य विभावसुः । 20 6