पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. स्वर्गवर्गः] दाक्षिणात्यव्याख्योपेतः सुकेशी मञ्जुघोषाद्याः कथ्यन्तेऽप्सरसो बुधैः ॥) हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् ॥ ५३॥ (वि.) स्त्रियामिति – आप्यन्ते पुण्यकृद्भिरिति अप्सरस: 1 । ऊरू अश्नुते, नारायणस्य ऊर्वोर्भवत्वात् ऊर्वशी । ऊर्वशीमुख स्वर्वेश्यानाम | अप्सरा इत्येक- वचनान्तमपि विद्यते ॥ गानं धारयन्तीति गानपराः 'गन्धर्वाः । हाहा हूहू इत्यालापानु- कारात् नामद्वयम् | एकनामेत्येके | अव्ययाविति भोजराजः । हाहाहूहूप्रभृतिदेव- गायकनामनी ॥ ५३ ॥ 1 अप्सु सरन्तीति । 'सृ गतौ' U; स्रुवन्तीति I; अद्भयः सृता: अप्सरस: अपसारयन्ति 2 उर्वशीति वा पाठ: Y. स्मारयन्तीति, सकारान्त: D1; अद्भयः निःसृता: निर्गता: V. 3 गानं धर्मः येषां ते गन्धर्वा: D1; गानं धारयन्ति, शिष्यान् पाठयन्ति, स्वयं वहन्ति च ये ते गन्धर्वाः । 'धृञ् धारणे' 'वह प्रापणे' C. (पा.) स्त्रियां - ऊर्वशीमुखाः । ऊर्वशीरम्भामेनकादिस्वर्गगणिका अप्सरस इत्यु- च्यन्ते । बहुष्विति बहुवचनप्रकृतिरन्ते लिङ्गसंग्रहे समीरिता । एकवचना विंशत्या- दयः । द्विवचना दम्पत्यादयः । बहुवचना अप्सरः प्रभृतयः | त्रिवचना वृक्षादयः । अवचनान्यव्ययानि। केषांचिद् बहुत्वमनभिमतमेव । 'एकाप्सरःप्रार्थितयोविवादः '1 इत्यत्र बहुत्वं प्रायिकाभिप्रायमुक्तम् । अबहुवचनस्योदाहरणम् – 'सान्द्रकाण्डपटसंवृतमूर्तेर्दन्तिदन्तशयनीयशयस्य । मानिनः कुलवधूरिव रागादप्सरा व्यधित पार्श्वमशून्यम्' ॥ ३७ इति ।। हाहा हूहू–त्रिंदिवौकसाम् । हाहाशब्दो धातुजो न भवतीति केचिद् व्याचक्रिरे । तज्जल्पितमज्ञानविजृम्भितमेव । 'हेति निन्दितं ध्वनिं जहातीति हाहा' इत्यमर- भाष्यकाराः प्रतिजानते। गन्धर्वन्ति हाहसोरित्यभिधानान्तरपक्षः | हाहाहूहूप्रभृतयो देवगन्धर्वाः। गान्धर्वा अपि भवन्ति । 'अपि गन्धर्वगान्धर्वदिव्यगायनगातवः' इति रभसकोशः ॥ ५३ ॥ 1 A1 omits विवादः. टीकासर्वस्वे (पृ. ३९). 2 एकवचनस्य B, B1; कप्फिणाभ्युदये (१७. ३२) इति 3 ° कोशकार: A1. अग्निर्वैश्वानरो वह्निवतिहोत्रो धनंजयः । कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् ॥ ५४ ॥