पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/९८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ७३ )
टीकाद्वयसमेतम्


तथापि तत्वत एनामुपलप्स्ये ।


संधिष्वङ्गानां क्रमो नायं विवक्षितः । क्रमस्यानाहतत्वेन भरतादिभिरादिमैः ॥ लक्ष्येषु व्युत्क्रमेणापि कथनेन विचक्षणैः॥ ' इति । यद्यपि मम हहृदये विश्वसस्तथापि व्यवहारार्थं तत्त्वत एनामुपलप्स्ये ज्ञास्यामि ।


‘‘ परिग्रहबहुत्वेऽपि " इत्यादिना । क्षत्रस्य क्षत्रजातेः ब्रह्मादिशब्दवज्जातिपरत्वं क्षत्रपदं नपुंसकं तथा त्रिकांडशेषे “ मूर्धावसिक्तमूर्धाभिषिक्तौ क्षत्रं नपुंसकम्” इति तथा नैषधेऽपि ‘• क्षत्राद्यथा भज्यत स द्विजेन्द्रः " इति । क्षत्रजातीयपरिग्रहक्षमा शक्ता कलत्रत्वयोग्येत्यर्थः । अथवा परग्रहणं परिग्रहः कलत्रत्वेन स्वीकार इत्यर्थः । परिग्रहक्षमत्वे हेतुमाह आर्ये मे मनोऽस्यामभिलाषि यद्यस्मात् मे क्षत्रस्य ममेत्यर्थः । आर्ये निर्दोषम् ।। अत्रार्यशब्देन शास्त्रार्थानुष्ठाननियतिर्मनसोच्यते । नमर्याः क्रियप्रमाणं प्रशंसति स धर्म इत्यापस्तवोक्तेः । तत्संबंधि मनोऽप्यार्यमित्युच्यते । अत्र मनसः आर्यत्वविशेषणेन मनस्स्वारसिकतथा न कदाप्यकार्ये प्रवर्तत इति द्योत्यते । तदेवार्तांतरन्यासेनोपपादयति । सतां हीत्यादिना। सनामाप्तानां संदेहपदेषु कर्तव्याकर्तव्याभ्यां संशयस्थानेषु ‘‘पदं व्यत्रसितत्राणस्थानलक्ष्मांघ्रिवस्तुषु " इत्यमरः । वस्तुषु पदार्थेषु प्रमाणं प्रमेयनिश्चायकम् अंतःकरणस्य अंतरिंद्रियस्य " करणं साधकतमक्षेत्रागात्रेंद्रियेष्वपि" इत्यमरः । चितस्य प्रवृत्तयः प्रकृष्टा वृत्तयः निरुपाधिकाः स्वारसिकाश्चेति यावत् ! प्रमाणमिति । वेदाः प्रमाणमित्यादिवज्जनत्येकवचनं नियतलिंगं च । धर्मनिर्णयकारणत्यर्थः । यथाह-‘‘ सम्यक्संकल्पजः कामो धर्ममूलमिदं स्मृतम् " इति । केचिदात्मप्रशंसानिवारणार्थमेवमपि योजयंति । अस्यामभिलाषि सस्पृहं में मनः यदा यस्मिन्काले आर्ये भवति तदेयं क्षत्रपरिग्रहक्षमा स्यात् । हि यस्माद्धेतोर्वस्तुषु पदार्थेषु संदेहपदषु सत्सु अंतःकरणप्रवृत्तयः प्रमाणं सतामेव मादृशां नास्ति तस्मादिति पूर्वार्धेन संबंधः । अमुमर्थमेवाह--तथापीत्यादि । यद्वा महापुरुषस्यात्मप्रशंसादोषो न विद्यते । यथा रामायणे " अद्य रामस्य रामत्वं पश्यंतु हरियूथपाः । " इत्यादौ । यद्वा आत्मगतत्वेनोक्तग्वात्र दोषः ।। तथापीत्यादि ।। अंतःकरणप्रवृत्तिमात्रेण निर्णयितुमशक्यत्वेऽपि तत्त्वत एव साक्षादेव प्रत्यक्षप्रमाणैरेवेत्यर्थः । उपलप्स्ये ज्ञास्यामि । ज्ञातृत्वे सुकरत्वमाह एनामित्यनादरनिर्देशेन एषा नागरिका न भवति छलोक्त्या सर्वं ज्ञातुं शक्यत इति द्योत्यते । पूर्वस्यां योजनायामपि तथाप्यनुमानेन निश्चितं यद्यपि तत्वत एव प्रमाणान्तरैरेव उपलप्स्य इत्यर्थः । असंशयमित्यादिनैतदंतेनारंभो नाम प्रथमावस्थोक्ता । तदुक्तं दशरूपके " कर्तव्याध्यवसायः स्यादारंभः फलसिद्धये " इति । अत्रासंशयादिपदैः कर्तव्याध्यवसाय उच्यत इत्यारंभः । अवस्था निरूप्यते “ प्रारब्धस्य तु कार्यस्य पंचावस्था