पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/९९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ७४ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


शकुन्तला ( ससंभ्रम् )ओम्मो | मलिलसेअसंभमुग्गदो

णोमालिअं उज्झिअ वअणं में महुअरो अहिवट्ट्इ (इनि भ्रमरबाधा रूपयतेि ) [ अम्मो । मलिलमेकमंभ्रमोट्टनो नवमालिकामुज्झित्वा वदनं मे मधुकरोऽभिवर्तते ]

राजा--विलोक्य ( सस्पृहम्)[ साधु बाधनमपि रमणीयसस्याः

यतो यतः षट्ट्चरणोऽभिवृर्तते,
ततस्ततः प्रेरितलोललोचना ।
विवर्त्तित्तभ्रूरियमद्य शिक्षते ,
भयादकामापि हि दृष्टिविभ्रमम् ॥]

(सासृग्रमिव)


ससंभ्रमं सभयम् । भयहेतुश्च वक्ष्यमाणः ! अम्भो आश्चर्यं । अव्ययम् । इत्यधिकारे - अम्मो आश्चर्यं ' इति सूत्रम् । मलिलमेकसंभ्रमोद्गतो नवमालिकासुज्झित्वा वदनं मे मधुकरोऽभिवर्तते । वदनं लक्ष्यीकृत्यागच्छतीत्यर्थः । अनेन पद्मिनीत्वमृक्तमस्याघ् यदाहुः--कमलमुकुलमृद्वी फुल्लगजीवगन्धः सुरतपयसि यस्याः सौरभं दिव्यमङ्गे ' इति । भ्रमरबाधां रूपयति ! अभिनयतीत्यर्थः । स चाभिनयो विधुतेन शिरसा, काम्पितेनाधरेण, मुखदेशस्थितेन पगङ्मुखतलेन चञ्चलेन पताकंनेति । तलक्षणानि-- तिर्यग्गतं द्रुततरं विधुतं तप्रयुज्यते । शीतार्ते स्वरिते भीतं ’ इति । ' व्यथायां कम्पितोऽन्वर्थो भीतौ शीते जये रुपि ' इति । ' तर्जनीमूल्लग्नकुञ्चितांगुष्टको भवेत् । पताकः मंहृताकारः प्रसारेित-


भवंति हि । आरंभयत्नप्राप्याशानीयताप्तिफलागमाः ॥ " इति । हलेभ्यादि ।। नवमालिकाभ्यो वदनभ्याधिक्रसौरभत्वाद्गदतमनुसरतीति भावः । अनेन वदनस्य गौरभवत्वकथनेन शकुन्तलायाः पद्मिनीजातिना सूच्यते । तदुक्तं रतिरद्वरये " कमलमुकुलमृद्वी फुलराजीवगन्धं सुरतपयसि यस्याः सौरमं दिव्यमंगे । चकितमृगदशाभे प्रान्तरक्ते च नेत्रे स्तनयुगलमनर्घे श्रीफलर्थाविदंयि ॥ तिरडुरससमानां बिभ्रती नासिकां च द्विजगुरुप्रपूजाश्रद्धधाना सदैव । कुवलयदलकांतिः कापि चांपेयगंधी विकचकमलकोशाकारकमातपत्रा ॥ व्रजति मृदु सलीलं राजहंसीव तन्त्री त्रिवलिवलितमध्या हंसवाणीं सुवेषा । मृदु शुचि लघु भुंक्ते मानिनीं गाढलज्जा धवलकुसुमवासा वल्लभा पद्मिनी स्यात् ।। इति । रूपयतीत्यादि । रूपयति


१ हलेति पठान्तरम् । २ विलोक्येति क्वचित् पु० अधिकम् ।