पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ८२ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


             असंशयं क्षत्रपरिग्रहक्षमा
                यदार्यमस्याममिलाषि मे मनः
             सतां हि संदेहपदेषु वस्तुषु
                प्रमाणमन्तःकरणप्रवृत्तयः ।। २२ ।।

कलत्रं तत्संभवा तत उत्पन्ना । 'क्षेत्रं पत्नीशरीरयो: ’ इत्यमरः । कृतमित्यलमर्थेऽव्ययम् ।’ तद्योगे वारणार्थयोगे तृतीया ’ इति तृतीया । संदेहे नालमित्यर्थः । 'कृतमिति निषेधनिवारणयोः ’ इति वर्धमानः । तदेव वंशस्थेन द्रढयति--असंशयमिति । क्षत्रं क्षत्रियस्तस्य परिग्रहः स्त्रीत्वे नाङ्गीकारस्तत्क्षमा तत्समर्था । 'क्षत्रं क्षत्रियराजन्यौ' इति नाममाला ।' परिग्रहः परिजने पत्न्यां स्वीकारमूलयोः ' इति विश्वः । अत्र मत्परिग्रहक्षमात वक्त्तव्ये क्षत्रेति सामान्योक्तेरप्रस्तुतप्रशंसा । तया च नायकगतमौचित्यं ध्वनितम् । यद्यस्मादार्यं श्रेष्ठं मे मम जितेन्द्रियस्य पुरुवंशोत्पन्नस्य दुष्यन्तस्येत्यर्थान्तरसंकमितवाच्यम् । मनोऽस्यां स्त्रीसृष्टिरत्नभूतायामभिलाषयुक्तम् । हि यस्मात्सतां संदेहपदेषु संदेहस्थानेष्वन्तःकरणस्य प्रवृत्तयो वर्तनानि प्रमाणम् । “ पदं व्यवसितत्राणस्थानलक्ष्माङ्- घ्रिवस्तुषु ' इत्यमरः । तेन पुनरुक्तवदाभासो नामालंकार: । अर्थान्तरन्यासकाव्यलिङ्गानुप्रासाः । अनेन परिन्यास इत्यङ्गमुपक्षिप्तम् । तल्लक्षणं तु--" तन्निष्पत्तेस्तु क्रथनं परिन्यासं प्रचक्षते ’ इति । नन्वङ्गोद्देशवाक्ये ' उपक्षेपः परिकरः परिन्यासो विलोभनम् ’ इत्युद्दिष्टम् । उदाहरणे च कथं व्यत्यय इति चेत् | नैष दोषः । यत उत्त्कं सुधाकरे-- मुखादि

वाक्यालंकारे । यद्वा अपिनामेति संभाचनायाम् । कुलपतेर्गोत्रप्रवर्तकत्य ॠषेरिति शेषः । असवर्णक्षेत्रसंभवा असमानजातीयभार्यासंभवा । क्षेत्रमिति भार्यानाम “ क्षेत्रं पुरे गृहे देहे केदारे योनिमार्ययोः । ” इति वैजयंती । यद्वा अपिनामेति वितर्के । एवं संदिह्य निश्रायकप्रमाणैर्निश्विनोति । अथवेत्यादिना । अथवेति पक्षां- तरे कृतमलं संदेहेन संशयेन । निश्चायकप्रमाणस्य विद्यमानत्वात्संदेहो न कर्तव्य इत्यर्थः । तदेवाह--असंशयमित्यादिना । आत्रसंशयपदेन चाक्षुषमानससंदेह- द्वयं निरस्यते । तेन च कर्तव्याध्यवसाय उच्यते । अनेनोपादेयता ध्वन्यते क्षत्र- परिग्रह्क्षमा परिगृह्यत इति परिग्रहः कलत्रम् । तथा च वक्ष्यति तृतीयेऽङ्के