पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/९६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ७१ )
टीकाद्वयसमेतम्


प्रियंवदा--( सस्मितम् ) अणसूए. जाणासि किं सेउन्दला

वणजोसिणिं अदिमेत्तं पेक्सदित्ति । [ अनसूये, जानासि किं शकुन्तला वनज्योत्स्नामतिमात्रं पश्यतीति ]

अनसूया—ण क्खु विभावोमि । कहे हि । [ न खलु विभावयामि । कथय ]
प्रियंवदा - जह वणजोसिणी अणुरूवेण पाअवेण संगदा,अवि णाम एव्वं अहं वि अत्तणो अणुरूवं वरं लहेअत्ति । [ यथा

वनज्योत्स्नानुरूपेण पादपेन संगता, अपि नमैवमहमप्यात्मनोऽनुरूपं वरं लभेयेति]

शकुन्तला-( सासूयम् ) एसो णूणं तुह अत्तगदो मणोरहो ।( इतेि कलशमावर्जयति) [ एष नूनं तवात्मगतो मनोरथः]
राजा-अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् । अथवा कृतं संदेहेन ।

मासोक्तिः । इति पश्यन्ती तिष्ठतीति कविवाक्यम । अनसूये, जानासि किं शकुन्तला वनज्योत्स्नामतिमात्रं पश्यतीति । न खलु विभावयमि । कथय | यथा वनज्योत्स्नानुरूपेण पादपेन संगता । अपि नामेति संभावनायाम । एवमहमप्यात्मनोऽनुरूपं वरं लभेयेति । एष नूनं तवात्मगतो मनोरथः ।’ राजा–कथमियम् ’ इत्याद्येतदन्तेन विलोभनं नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु-- गुणानां वर्णनं तज्ज्ञैर्विलोभनमितीरितम् । इतेि । अपि नामेति संभावनायाम् । असवर्णभसमानं क्षत्रियादि क्षेत्रं


न खु विभावेमीति । खलुशब्दो जिज्ञासार्थकः । जह इत्यादि । अनुरूपं सदृशंवरं लभेयमित्यतिमात्रं पश्यतीति संवंध:। “ वरो जामातृषिन्नयोः । श्रेष्ठेऽन्यवत् " इति विश्वः । हलां रमणिजे काले इत्यादिना एतदंतेन लेशालंकारौ व्यज्यते । तदुक्तम् = "यद्वाक्यं वाक्यकुशलैरुपायैनाभिधीयते । सदृशार्थाभिर्निप्पत्त्या स लेश इति कीर्तितः ॥" अत्र प्रौढेन कविना शकुन्तलायाः सदृशवराभिलाषोऽस्तीनि दुष्यन्तं प्रत्युपायेन द्योतितमिति लेशः । एसो इत्यादि । आत्मशब्देन बुद्धिरुच्यते बुद्भिगत इत्यर्थः ।"आत्मा जीवे धृतौ बुद्धौ स्वभावे परमात्मनि " । इति विश्वः ।। एष इति यः सदृशवराभिलाषः स एष इत्यर्थः । आत्मगतमित्यनेन सर्वाश्राव्य-मुक्तमित्यवगंतव्यम् ! अपि नामेत्यादि । अपिशब्दो जिज्ञासाप्रश्नार्थकः नामशब्दो


९ णिमित्तं ( निमित्तं ) इ० क्व० पू० ।