पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४ )

घटत इति नूनमुज्जयिगसन्निहिते प्रदेश उजयिन्यामेव वा निवासः कालि दासस्येति सम्भाव्यते ।

एतस्प्रणीताः प्रबन्धस्तु ।

 ऋतुसंहारम्-सर्गषट्कात्मकमृतुवर्णनमिदं प्रसन्नमधुरं खण्डकाव्यम् ।

 कुमारसम्भवम्-सप्तदशसर्गात्मकं मनोहरं महाकाव्यम् । एतच शिव पुराणीयां कथामुपजीव्य विरचितम् । अत्र च बहुषु स्थानेषु शिवपुराणी यपद्यानां छाया सन्दृश्यते । छायोपजीवित्वाचेदमेव प्राथमिकं महाकाव्यमेत स्येति समवगम्यते । एतच्च समग्रमापि कालिदासप्रणीतमेव । तत्र युक्त यस्त्वन्यत्र द्रष्टव्याः ।

 रघुवंशम्-ऊनावंशतिसर्गात्मकं महाकाव्यमिदमतिमात्रहृदयङ्गमम् । मेघदूतम्-खण्डकाव्यामिदम् । अनिर्वचनीयमन्यादृशमेवास्य सर्वाङ्गर भणीयत्वम् । एकमात्रमप्येतत्काव्यं कवेरस्य विमलतमेन यशसा दिगन्त राण्यछकतु प्रभवत् ।

 अभिज्ञानशाकुन्तलम्-सहृदयहृदयाहूदकं नाटकरत्नमिदम् । एत देवोद्दिश्य प्राचीनानामिदं पद्यम् ।

" काव्येषु नाटकं रम्यं तत्रापि च शकुन्तला ।
तत्रापि च चतुर्थोऽङ्कस्तत्र श्लोकचतुष्टयम् ।
यास्यत्यंचेति तत्रापि श्लोकः सर्वमनोहरः ॥ " इति ।

 अत्रत्यस्यैव कस्यापि वत्सळरसपारंस्यन्दिनः पवस्थ रसमास्वाद्य कोऽपि शार्मण्यदेशयः प्रमोदभरत्रिकसितान्तःकरणस्तदेकतानतामापन्नोऽसङ्गीतकं ननर्तेति श्रूयते ।

 विक्रमोर्वशीयम्–पद्माकं त्रोटकमेतत् । अस्य च कमनीयतमत्वे प्रमाणं सुधियः ।

 मालविकाग्निमित्रम्-पञ्चकं नाटकम् । अस्य च नाटकवे सन्दिहते केचिदर्वाचीनाः । तदसङ्गतम् । “ नाटकं ख्यातवृत्तं स्यात्पश्चसन्धसम- न्वितम् । ’ इत्यादिनाटकलक्षणाक्रान्ततयैतस्य नाटकताया दुर्वारत्वात ।