पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३ )

निश्वस्यते । संप्रति पुनर्युधिष्ठिरशकस्यैकपंचाशत्तमा शताब्दति सुस्पष्टमेवेतः पूर्वं चतुर्विंशशताब्यां श्रीशंकराचार्यप्रादुर्भाव इति । तत्समानकाटिकेन कुमारिलभट्टेने कालिदासीयपद्यस्योदाहरणात्ततोऽपि प्राचीनोऽर्थादितः पूर्वं चतुर्विंशतिशताब्दतः पौर्विकः श्रीमान्कालिदास इति स्पष्टम् । कालिदासश्च श्रीमत्याः काल्याः प्रसादादेव कात्रित्वमुपागत इति प्रबल दन्ति । अत्रेयं किंवदन्ती । आस्तीत्पुरा कऽपि भूषादः । तस्य चासी पाण्डिततमा कन्या । तस्याश्चानुरूपं वरमनुसन्दधानोऽसफलीभूतमनोरथे भूपः कदाचिदपरेद्यवि प्रभाते यो नयनगोचरतामागच्छेत्तस्मै कन्यकायाः प्रदानं प्रतिजज्ञे । ततश्चात्मनस्तनयाय न प्रयच्छति कन्यकां भूपाल इति रुष्टेन मन्त्रिणा कस्यचिवृक्षस्य शाखाग्रमारुह्य मूलमुच्छिन्दन्कोऽपि द्विजगो- पाछो राजद्वार उपस्थापितः ! राज्ञा च यथाप्रतिज्ञे तस्मा एत्र समर्पिता कन्या खया । तदनु निशि विळासमन्दिरं गतया राजकन्यकयाऽवबुद्धः पत्युरतिमात्रमसमञ्जसभावः । ततश्च तया सुपरुषं निर्भर्हसतस्तत्पतिररण्यं गत्वा कार्यमाराध्य सम्पाद्य चालौकिकं कवित्वं कदाचिन्निचि प्रतिनिवृत्तो विलोक्य पितिं गर्भागारद्वारं प्राह ‘‘कान्ते ! दीयतामपावृतकघटं द्वारम् " इति । सापि प्रत्यभिज्ञाय दयितं प्रति प्राह । ‘’ अस्ति कश्चि द्वाग्विशेषः ? इति । अयं तु तत्प्रतिवचनगतं पदत्रयमधिकृत्य काव्यत्र- यमेव रचयाञ्चकार । “ अस्त्युत्तरस्यां दिशि देवतात्मा ? ’ इत्यारभ्य कुमा रसम्भवाख्यं सप्तदशसर्गात्मकं महाकाव्यं ‘‘ कश्चित्कान्ताविरहगुरुणा १५ इत्यादि मेघसंदेशाख्यं संघातकाव्यं ‘‘ वागर्थाविव सम्पृक् ?’ इति रघुवं- शाख्यमूनविंशतिसर्गात्मकं महाकाव्यं चेति । ततश्च प्रसन्ना राजदारिकाः सप्रणयं वल्भं निषेवमाणा सुखमासीदिति । अत्र प्रतिपाद्यमानं तु गोपा लाय राज्ञः कन्यकप्रदानमसम्भवग्रस्तमिव प्रतिभाति । कविरयमुत्तरमारत एव प्रादुर्धेत इति तत्र तत्रोत्तरभारतीयानामेवाचा- राणामनेनोपवर्णनात्प्रतीयते । मेघसन्देशे मार्गनिर्देशप्रस्तावेन तत्तानि पुर- ग्रामसरिदादीन्युपवर्णयन्नयमुज्जयिनीमेव विशेषतः सूक्ष्मतया चोपश्लोकयत यनुमीयत एतस्योञ्जनन्यानैकान्तिकः पारचयः । स च न हि सुदूरवर्तन