पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३४ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।

सुभगसलिलावगाहाः पाटलसंसर्गिसुरभिवनवाताः।
प्रच्छायसुलभनिद्रा दिवसः परिणामरमणीयाः ॥ ३ ॥


पुष्पादेः सौरभ्याद्यतिशयो व्यज्यते ! उपभोगाय चंदनाद्युपभोगाय क्षमः समर्थस्तम् । अनेन स्वस्य श्रमापनोदोपायबाहुल्यसूचनम् । संपति ग्रीष्मे हि यस्मात् । अस्य श्लोकेनान्वयः । सुभगेति । स्वतिशयेन भगो यत्नो


साधर्म्ये व्यतिरेकेण निराकरोति । वेदितव्यानामन्येषां वस्तूनामसंवेदनमत्र श्रृंगाररसे नास्तीति नाश्चर्यं शृंगाररसे निमज्जतां सहृदयानां स्वात्मावबोधो न लक्ष्यत इति यस्तात्तस्वात्मादबोधलक्षणात्परब्रह्मरसास्वादात् शृंगारस्याधिक्यप्रतिपादनाव्यतिरेकः । सर्वत्र शब्दशक्तिमूलव्यक्तीनां जलभरभरितसरस्सलिलमग्नतृषितजनधर्माणामुपमानत्वमपि सहितम् । स्वात्मावबोधस्यापि तृषितजनेषु विद्यमानत्वात् । परब्रह्मरसास्वादविलक्षणहेतुभूत-स्वात्मावबोधत्वलक्षणसमर्थनपुरस्सरं लौकिकशृङ्गारादिरसानुभोगवतामप्यलौकिकत्वं प्रतिपादयति । - "स्वात्मभावं परित्यज्य भावमन्यमधिश्रिताः तदीयानखिलान्भोगान्विदग्धा भुञ्जते स्वकान् ॥" लौकिकास्तावत्परित्यक्तान्यभावाः परभावमनाश्रयंतश्च स्वकीयानेव भोगान्भुञ्जते । न तु परकीयान् । विदग्धाः पुनः योगिन इव परिमितं स्वाकारमुत्सृज्य नाटकगततत्तद्रसाधारभूतनायकस्वरूपमास्थाय तत्सम्भन्धिनी भोगानशेषान् स्वसम्भन्धिन एव मन्वाना भुंजते - "रसो वै सः" इति श्रुतेः । रामादिगतसकलभोगानुभवसमये रसिकानां रामादित्वमेवं न स्वात्मावबोधः अत एव महाकविप्रणीतेषु व्यंग्यरसप्रधानकुमारसम्भवादिकाव्यशाकुन्तलादिनाटकेषु रसमास्वादयतां रसिकानां तत्तन्नायकत्वसमावेशात्तद्भोगापत्तिर्भवतीत्यर्थः । सुभगेत्यादि ॥ सलिलावगाहाः जलप्रवेशाः जलक्रीडा इत्यर्थः । येषु दिवसेषु ते तथोक्ताः अत्र सलिलशब्देन सरिद्वापीतटाकान्युच्यन्ते । तेन पुलिनवेलावेतसगृहादिक्रीडाश्च सूच्यन्ते । शिशिरवर्षादिसमयेषु शैत्यवशाज्जलक्रीडादीनां सुभगत्वं नास्तीति ग्रीष्मसमयस्यैव सुखप्रदत्वात्सुभगेत्युक्तम् । पाटलसंसर्गसुरभिवनवाताः पाटलायाः कुसुमानि पाटलनि “पुष्पमूलेषु बहुलम्" इति बहुलग्रहणाद्बिकारावयवविहितस्याणो लुक् । पाटलपदं तु ग्रीष्मर्तुपुष्पितवृक्षलतादेरुपलक्षणम् । ग्रीष्मर्तुसमय एव निखिलवृक्षादीनां पुष्पोत्पत्तेरिति भावः । तत्संसर्गेण सुरभयः सुगन्धयः वनवाताः मलयमारुता इति यावत् । येषु दिवसेषु ते तथोक्ताः पाटलपदेनेतरपुष्पविलक्षणपरमोद्दीपकत्वं तस्य सूचितम् । वनपदेन वनेश्वेव ग्रीष्मसमयपुष्पितसकलवृक्षाणां सम्भवः सूचितः । अनेन पाटलपुष्पमलयमारुतकथनेन ग्रीष्मस्यासाधारणो गुणः उक्तः । तेनेतरर्तुविलक्षणणपुष्प्अमारुतकथनेन ग्रीष्मस्य परमोद्दीपकतया प्रणयकलहादिकुपितानां माननिरसेन अमोघत्वं सूच्यते । वनशब्देन विविधक्रीडाया विविक्तस्थलमिति ज्ञाप्यते । तेन निःशङ्कं निरर्गला। प्रवृत्तिः क्रीडायां कर्त्तव्येति ध्वन्यते । वतपदेन विविक्तस्थले विंविधक्रीडपरिश्रान्तानामनायासमलयमारुतस्पर्शाद्व्यजनवातनैरपेक्ष्यं व्यज्यते । यद्वा वनवातशब्देनारण्ये फल-