पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ३५ )
टीकाद्वयसहितम्।


येष्वेतादृशाः सलिलावगाह यत्रेति बहुव्रीहिगर्भी बहुत्रीहिः । ‘भगशब्दोे यशोज्ञानवीर्ययत्नार्कयोनिषु’ इति धरणिः । एतेन जलक्रीडायोग्यत्वं ध्वन्यते । पाटलानां पाटलीपुष्पाणां संसर्गः संबन्धो येषु ते । ‘पुष्पे क्लीबेऽपि पाटला' इत्यमरः। सुरभयो मनोज्ञाः मनोज्ञत्वं च शीतलत्वेन सुखस्पर्शात् । ‘सुगन्धे च मनोज्ञे च सुरभिर्वाच्यवन्मतः’ इति विश्वः । एवंभूता वनवाता येषु ते । वनशब्देन मान्द्यं ध्वनितम् । तेन संसर्गिसुरभिशब्दयोरन्यतरस्यावकरत्वं न शङ्कनीयम् । अनेन् वियोगिजससञ्चरणाक्षमत्वं ध्वन्यते। प्रकृष्टा छाया येषु प्रदेशेषु ते प्रच्छायास्तेषु सुलभानिद्रा येषु ते । अमुना रतश्रमहरत्वं ध्वन्यते । परिणामे दिवसावसाने रमणीयाः सुखसंचरणीयाः । एतेन शुभायितत्वं द्योत्यते । सर्वेर्विशेषणैः प्रकृतस्वीयपरिश्रमस्वेदविनोदो ध्वन्यते । परिकरालंकारः - "विशेषण-


मूलादिपरिमिताहारादिक्लिष्टतपस्विनामपि विकारजनकः अन्येषां तत्संसर्गेण मदनाकुलितत्वे का कथेति व्यज्यते । यद् वनशब्देन वृक्षादिसमुदायवाचकत्वेनोद्यानमेवोच्यते । अनेन सैौभाग्योपवनवा सक्रीडापुष्पावचयकिसलयनितिशय्याकुसुमधारणादीनामभ्यर्हितः समय इति ध्वन्यते । प्रच्छायसुलभनिद्राः प्रकृष्टा छाया यत्र सौधादौ तत्स्थानं प्रच्छायं तत्र सुलभाः शैत्यजनकांगलेपकुसुमधारणमलयमारुतस्पर्शात् सर्वकरणानामाह्लादवत्वेन सुलभाः अवशेन स्वरसिका इत्यर्थः । निद्राः परिश्रमविनोदा येषु ते तथोक्ताः । परिणामरम्णीयाः परिणाम उपरमः सायङ्काल् इत्यर्थः । तदा रमणीयाः आतपोपशमात्संचारयोग्यतया रमणीयाः परस्परप्रेमवीक्षणस्वाभिप्रायव्यञ्जकविविधविलासदर्शनदूतौप्रेषणादीनामुचितकालतया सुखप्रदा इत्यर्थः । दिवसा इत्यनेन दिवसेष्वेव विहरणानामुचितत्वात् तदुक्तम् भावप्रकाशे - "सरितः पुलिनं वेला कान्ताराराम् भूधराः । लतागृहाणि चित्राणि शय्या किसलयाचिता ॥ दिवाविहारदेशाः स्युः" इतादि । अत्र दिवसानामुत्तरोत्तरमुत्कर्षात्सारालंकारः उक्तं च - "उत्तरोत्तरमुत्कर्षात्सारः" इति । यद्वा मदनस्योद्दीपकः काल उज्जृम्भत इति । भंग्यन्तरेणाभियानात्पर्यायोक्तं वा । अत्र काव्यार्थोऽपि किञ्चिद्दद्योत्यते । नातिचिरप्रवृत्तिमित्यनेन प्रकृतनायिकाया यौवनदशा सूच्यते । अत एवोपभोगक्षममित्यनेनोपादेयता ध्वन्यते । ग्रीषममित्यनेनातिसन्तापलभ्यत्वं सूच्यते । सलिलावगाह इत्यनेनाङ्गुलीयकस्याप्सरसतीर्थायतनं ध्वन्यते । निद्रापदेन दुर्वासःशापव्यामोहितत्वं परिणामरमणीया इत्यनेनान्ते मारीचाश्रमे शकुन्तलादुष्यन्तयोः प्राप्तिः सूच्यते । अत्र कालदेशादीनां यथायोगमुपवर्णनाद्दिष्टं नामालंकारः । तदुक्तम् - ""यथाकालं यथादेशं यथारूपं च वर्ण्यते । यत्प्रत्यक्षे परोक्षं वा दिष्टं तद्वर्ण्यते बुधै ॥" इति किञ्च अत्र ग्रीष्मादिवसोपयोगिनां सुभगसलिलावगाहादीनाद्विशेषणं नामालङ्कारश्च । तदुक्तम् -