पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ३३ )
टीकाद्वयसहितम्।


 सूत्रधारः- तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम् । संप्रति हि ।


कंचिदुपादाय' इत्युक्तस्तमुपाद्त्ते-तदिममिति । तत्तस्मात्कारणाच्छ्रुतिप्रसादननिमित्तं गीयतामिति संबन्धः। अचिरप्रवृत्तमित्यनेन तदुत्पन्न-


अज्ज्ञ कदममिति ॥ नन्वित्यादि ॥ नन्विति सुकुमारामंत्रणे । नातिचिरप्रवृत्तमिति ग्रीष्मस्य नारंभो नापि परिणतिः किंतु परिपोषदशैवोक्ता । आरंभे वसन्तधर्माणांसङ्करः । परिणतौ वर्षर्तुधर्माणामुपक्रमावस्था ।तदा ग्रीष्मधर्माः साङ्कर्येण स्फुटं न ज्ञायन्त इति परिपोषदशैवोक्ता । अत एवोपभोगक्षममित्युक्तम् । उपभोगस्य जलक्रीडांगलेपनोद्यानविहरणादेः क्षमं हितं योग्यमिते यावत् । "क्षमं शक्ते हिते त्रिषु" इत्यमरः । ग्रीष्मपरिपोष एव जलकीडानुलेपनकुसुमधारणादीनामभ्यर्हितत्वादुपभोगक्षममित्युक्तम् ग्रीष्मर्तुमुद्दिश्याधिकृत्य गीयताम् । सिंहमृगभृंगरथशकटगतिपञ्चककंचुकितस्य गीतस्य दुरविगमत्वात्सावधानं गानं क्रियतामिति शिख्शायाम्लोट् । तावच्छब्दः कर्मार्थः पार्श्ववर्तिवाद्यवंशादेस्तालकालानुगुणं क्रमेण गीयतामित्यर्थः । अनेन ऋतुपर्णमकथनेन गानश्रवणमेवानन्तरकरणीयमिति बोधितं भवति । अत्रसमयान्तरेषु सत्सु ग्रीष्मर्तूपादानम् प्रकृतनाटकस्य शृङारांगिकत्वात् ॥ तदुक्तम् - "शरत्संग्रामसमये विवाहे ग्रीष्ममाधवी" इति । अत्र शकुंतलादुष्यंतयोर्विवाहरूपशृंगारस्योक्तत्वाद्ग्रीष्मर्तूपादानं कृतं ननु रसान्तरेषु बहुषु प्राप्तवरिपोषेषु जाग्रत्सु सत्सु कथमेकस्यामंगित्वम् चेन्न । तदुक्तम् - ध्वनिकृता - "पसिद्धोऽपि प्रबन्धानां नानारसनिबन्धने । एको रसोऽङ्गीकर्तव्यस्तेषामुत्कर्षमिच्छता ॥" इति । तथा हि बीभत्सभयानकयोः प्रतिनायिकाश्रितत्वेन वर्णनीयत्वात् हास्यरौद्रकरुणाद्भुतानां महाप्रबन्धरसत्वे चमत्काराभावाच्छान्तस्य निर्विकारत्वेन नाटकरसत्वाभावाच्च शृङ्गारस्यैवांगित्वं युज्यते । ननु "एको रसो भवेदंगी वीरशृंगारयोर्द्वयोः" इत्युक्तत्वाद्वीररसस्यांगित्वं भवेदिति चेन्न् । शृंगारस्य हि सर्वसंसारिणां नियमेनानुभवविषयत्वात्सर्वरसेभ्यः कमनीयतया च प्राधान्यम् । एवं च सति विनेयान्मुखीकर्तुं काव्यशोभार्थमेव वा क्रियते । तदुक्तम् - ध्वनिकृता - “शृङ्गाररसैरुन्मुखीकृताः संतो हि विनेयाः सुखं विनयोपदेशान्गृह्णन्ति । सदाचारोपदेशरूपभिनाटकादिगोष्ठीविनेयजनहितार्थमेव मुनिभिरवतारिता किंच शृगारस्य सकलजनमतोऽभिरामत्वात्तदंगीसमावेशः काव्ये शोभातिशयं पुष्णाति”इति । शृंगारस्यैव प्राधान्यं विवक्षितम् । एतादृशशृंगाररसानुभवस्य प्रयोजनमाह - “स्वादं स्वादं रसं गाढं गाहं गाहं निमज्जिताः । परब्रह्मरसास्वादनित्यसब्रह्मचारिणि ।। रसे निमग्ना रसिका न किं विजानते परम् वेदितव्यान्यसंवित्तिर्नास्तीत्यत्र किमद्भतम् ॥ स्वात्ममात्रबोधोऽपि पुनर्नेष्यते मज्जतां रसे ।" एवं प्रतिपादितं शृंगाररसस्य परब्रह्मरसास्वादेन्