पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ७]
( ४३७ )
टीकाद्वयसहितम्।


 मातलि: -आयुष्मन्, एतौ युद्धप्रीदिपिसशुनेन चक्षुषा दिवांकमां पितरावायुष्मन्तमवलोकयतः । तावुपसर्प ।
 गजा-मातले, एतौ

प्राहुर्द्वादशधास्थितस्य मुनयो वनेजन: कारणं
भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् ।
यस्मिन्नात्मभवः परोऽपि पुरुषश्चके भवायास्पदं
द्वन्द्वं दक्षमरीचिसंभवमिदं त्त्रष्टुरेकान्तरम् {! २७ ।


भावाम्याकृतिः ? संभावनीयोऽनुभाव: प्रभावो यस्य स |६ पुत्रप्रीतिपिशुनेन पुत्रस्नेहसूचकेन |’ पिशुनैः बलसूचकौ ' इत्यमरः । इन्द्रऽनयो: पुत्रस्नम्य त्वं मित्रम् । अतस्त्वमपि पुत्रप्राय: पुत्रस्नेह इत्यर्थे: । दिवौकसां देवानां पितरावदितिकश्यपौ । प्राहुरिति । मुनयो व्यासादय: | इत्यनेनैषां विप्रलम्भकरणपाटवादिसाहित्यं ध्वन्यते । तेन च तदुक्तेवदानुमनेन प्रामाण्यम् । द्वादशधास्थितस्य द्वादशसु मासेषु द्वादशमृर्तिधरस्य तेजसः सूर्यस्य यत्कारणं निदानमामनन्ति ! जगत्प्रदीपस्य विश्वःशेषकियकलापकारणभूतस्योत्पादकत्वेन तेजोराशित्वं ध्वनितम्न - तथा च विष्णुपुराणे-‘ तत्र विष्णुश्च शक्रश्च अ पुनरेव हि द अर्यम चैव धाता च त्वष्टा पृषा तथैव च । दिवस्वान्सविता चैव मित्रो वरुण एव च । अंशुर्भगश्चादितिन आदित्या द्वादश स्मृता: ।। चाक्षुपस्यान्तरे पूर्वमासे ये तुषिताः सुगः । वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥ ९ इति । अथवा द्वादशधास्थितस्य द्वादशकलात्मकस्य। तदुक्तामाचार्यै:-‘तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः । सुषुम्ना


रुपक्रियासाधकम् ? प्राहुर्द्वादशधेति । यद्वन्द्वम्, ! द्वादशधास्थिनस्य तेजसः सूर्यात्मकस्य कारणं हेतुं जनकनाहु: यद्वन्द्वम् यज्ञभागेश्वर ! यज्न्भागानामीश्वरं भुवनत्रयस्त्र भर्तारम्। देवेन्द्रमित्यर्थः । सुषुवे 'जनयामास यस्मिन्द्वन्द्वे,आत्मभुव: व्रश्रणः परः श्रेष्ठोऽपि विष्णुः भवाय जन्मने आस्पदं प्रतिष्टां चक्रे उपेन्द्रावतारस्य कारणमुक्तम् | दक्षमरीचिसंभवं दक्षमरीचिम्यां संभवमुत्पन्नम् । दक्षाददितिः मरीचेः कश्यप इत्यनुसन्धेयम् | 't अत एव त्रभुर्वाणः एकान्तरं एकः पुरुषः अंतरं व्यवधानं यस्य तत्तश्चोक्तम् । ब्रह्मणो मरीचिः मरीचेः काश्यपः ब्रह्मणो वृक्षः दक्षाददितिः इत्येकान्तरसनुसंधेयम् ।


१ तस्मात् इति क० पु० पाठः ।