पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४३६ )
[ सप्तम:
अभिज्ञानशाकुन्तलम् ।


 शकुन्तला-हिरिआमि अज्ञउत्तेण सह गुरुसमीवं गन्तुं } [ जिह्वेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् ]।
 राजा-अप्याचरितव्यमभ्युदयक/लेषु] एह्येहि ।

( सर्वे परिक्रामन्ति )

( ततः प्राविशत्यादित्या सार्धमासनस्ठो मारीचः )

 मारीच–( राजानमवलोक्य ) दाक्षायणि

पुत्रस्य ते रणशिरस्ययमग्रयायी
दुष्यन्त इत्यभिहितो भुवनस्य भर्ता ?
चापेन यस्य विनिवर्तितकर्म जातं
तत्कोटिमत्कुलिशमाभरणं मघोनः ॥ २६ ॥

 अदितिः -संभावणीआणुभावा से आकिदी [ संभावनीयानु भावास्याकृतिः ॥


मुपक्षिप्तम् |तल्लक्षणं तु -- उपक्षेपस्तु कार्याणां ग्रथनं परिकीर्तितम् इति ? ‘ राजा--अभूत्संपादितस्वादुफलो मे मनोरथः ’ इत्यनेन प्रहर्षनामा नाट्यालंकारः उपक्षिप्तः । तल्लक्षणं तु--‘ प्रहर्षः प्रमदाद्वाक्यम् इति| लज्जाम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् । अभ्युदयकालेषु मङ्गलोत्सवादिसमयेष्विदमाचरितव्यमेव । दाक्षायणि दक्षपुत्रि । पुत्रस्येति अयं दुष्यन्त इत्यभिहितः | इति नामपरामर्शाच्छब्दपरो निर्देशः । तेन दुष्यन्तनामधेयक इत्यर्थः । भुवनस्य भर्ता भूमण्डलस्य पालकः ते तव पुत्रस्येन्द्रस्य रणशिरस्यग्रयाय्यग्रेसरः } इदमेव विधेयम् । यस्य चापेन धनुषा विनिवर्तितकर्म समापितकार्यं कोटिमदित्यकुण्ठकोटिमदित्यर्थः । तेन युद्धक्षमत्वं ध्वन्यते । एतादृशापे मघोनः कुशं वङ्गमाभरणं जातम् । वीर्यलक्षणस्य वस्तुनोऽतिशयितत्वेन वर्णनादुदात्तं रूपकं च स्यस्येति यययायीति छेकवृत्यनुप्रासौ च । वसन्ततिलकं वृत्तम् । संभवनीयानु


|

तः अपरिमृष्टः तं बाष्पमद्य प्रमृज्यापनीय विगतानुशयोपगतपश्चात्ताप: । पुत्रस्यत्येत्यादि | ते तव यस्य पुत्रस्य चापेन विनिवर्तितकर्मजातं विनिवर्तितकार्यसमूहम् | कोटिमच्छतको- टिकुलिशं मघोनः देवेन्द्रस्य आभरणं वज्ररूपत्वादलंकरणं न त्वायुधभावेन दुष्टनिग्रहादि .


१ अलं हिय एवं इत्याधिकं क० पु° १ २ गोप्त इति क्र० पु० पाटः ।