पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४२४ )
[सप्तमः
अभिज्ञानशाकुन्तलम् ।


तापसी--जह भद्दमुहो भणादि अच्छरासंबन्धेण इमेस्स

जणणी एत्थ देवगुरुणो तवोवणे पसूदा । [ यथा भद्रमुखो मण त्प्सर:संबन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता ॥

राजा--( अपवार्य ) हन्त, द्वितीयमिदमाशाजननम् ।( प्रकाशम् )

अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी ।

तापसी---को तस्स धम्मदारपरिच्चाइणो णाम संकीतिदुं चि-

न्तिस्सदि [ कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्त- यिष्यति ]

राजा-( स्वगतम् ) इयं खलु कथा मामेव लक्ष्यीकरोति । यदि

तावदस्य शिशोर्मातरं नामतः पृच्छामि। ( विचिन्त्य ) अथवा नार्य: परदारपृच्छाव्यवहारः।

( प्रविश्य मृण्मयूरहस्ता )

तापसी--सव्वदमण, सउन्दलावण्णं पेक्ख । [ सर्वदमन-

शकुन्तलावण्यं प्रेक्षस्व ]

बालः-( सदृष्टिक्षेपम् ) कहिं वा मे अज्जू। [ कुत्र वा मम ।

माता]


षस्वरूपेणेति यावत् । एष देशो मानुषाणां विषयो न पुनरिति संवन्धः एवमुभयथात्मस्पर्शित्वमेवाभिव्यक्तम् । यथा भमुद्रखो भणति । तत्तथैवे . त्यार्थम् । अप्सरसंबन्धेनास्य बालस्य जनन्यत्र देवगुरोः कश्यपस्य तपोवने प्रसूता । हंतेति हर्षे । एको वंशः । एकमिदमिति द्वितीयम् । कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चितयिष्यति । संकीर्तनार्थं हृदि चिन्तनेऽपि दोषः संकीर्तने पुनः किं वक्तव्यमिति भावः ।‘अस्त्येत- पौरवाणाम् ' इत्यादिना ‘ परदारव्यवहारः ’ इत्यन्तेन विबोधनामक- मङ्गमुपक्षिप्तम् । तल्लक्षणं तु- कार्यस्यान्वेषणं युक्त्या विबोधः परि कीर्तितः ? इति । सर्वदमन, शकुन्तस्य पक्षिणो लावण्यम्, अथ शकुन्त लाया वर्ण पश्येति श्लेषवक्रोक्त्यलंकारः। कुत्र वा मे मम अज्जू माता ।


एव शब्दार्थगोचरत्वेनाप्युपचारलक्षणया लक्षिता इति । शकुन्तलावण्यं पश्य


१ बालस ( बालस्य ) इत्यधिकं क्९ पु० पाठः । २ पृच्छेयम् ।

अथवा अन्याय्योऽन्यदार इति कॅ० पु० पाठः।