पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ७]
( ४२३ )
टीकाद्वयसहितम्।


भवनषु रसोधिकेषु पूर्वे
क्षितिरक्षार्थमुशन्ति ये निवासन् ।
नयतैकपतिव्रतानि पश्चा-
तरुमूलानि गृहीभवन्ति तेषाम् || २९||

( प्रकाशम् ) न पुनरात्मगत्या मानुषाणामेष त्रिपयः ।


श्रमविषयम् । भवनेष्विति । पूर्वं यौवने ये राजानः। रसो रागः शृङ्गा रादिश्च मधुरादिश्वास्वादश्च। एते अधिक येषु । एतैर्वाधिकान्युत्तमानि तेषु । ‘रसो गन्धरसे स्वादे तिक्तादौ विषरागयोः। शृङ्गारादौ द्रवे वीर्यं देहधात्वम्बुपारदे ॥ ' इति विश्वः । भवनेषु गृहेषु । क्षितिरक्षार्थं पृथ्वीरक्ष णाय । निवासं स्थितिमुशन्ति वाञ्छान्ते । ‘वश कान्तौ ’ इति धातुः । कान्तिरिच्छा ” इति क्षीरतरंगिणीकारः । तत्र केवलं महीरक्षायै स्थितिवाञ्छैव । न तत्त्वतः स्थिलिरिति भावः । पश्चाद्वार्द्धेके। तेषां राज्ञां तरुमूलानि गृहीभवन्ति वानप्रस्थाश्रमं विधायाश्रमे निवसन्तीत्यर्थः । कीदृशानि तरुमूलानि । नियता नियमयुक्ता तपःसंतोषादियुतैका केवला पतिव्रता धर्मपत्नी येषु तानि । एतेन तत्पुत्रजन्मादिसंभावनपाकृता । रूपकानुप्रासौ । मालभारिणी वृत्तम् | आत्मगत्या स्वभावगत्या । मानु-


भवनेष्वित्यादि । ये पौरवा: क्षितिरक्षार्थं षष्टांशकरग्रहणेन जनानां विनयाधानरक्षणभर णादिभिश्च कुलकमागतभूलोकरक्षणार्थं भुवनेषु परिखाप्राकारतोरणाद्यलंकृतमहापुरमध्यव- र्तिनत्तदृतुयोग्यावस्थानार्हगृहेषु। पुनः कीद्वाग्वधोष्वित्यत्र आह--सुधासितेष्विति । मुधया धवलेषु विविध प्रासादालंकृतेष्वित्यर्थः। वहुवचनेन सभामंडपसंगीतशालाविविधकेलिगृह- खुरलीभवनादिगृहभेदा: सूच्यन्ते । निवाससुशन्ति वाच्छन्ति । पश्चात् वार्धकावस्थायां प्राप्तायाम्। तरुमूलानि वातातपवृष्टयादिजनितबाधानिवारकशून्यवृक्षमूलानि वनानीति यावत् । नियतैकपतिव्रतानि स्वारसिकानि गृहीभवन्ति । वानप्रस्थाश्रमिणो भवन्तीति यावत् । अत्र स्वारसिकानीति पदार्थे नियतैकपतिव्रतानीति वाक्यार्थ- कथनात् प्रौढिर्गुणः । तदुक्तं “ पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा । प्रौढेि र्व्याससमासौ ” इत्यादि । एवंविधा प्रौढिर्या तल्लक्षणमोजो न गुणः किंतु वैचित्र्यमात्रमेव । गुणकक्ष्यायां न गण्यते । तदभावेऽपि काव्यव्यवहारस्यैव विसंवादः । सगुण इति हि रहस्यम् । कैश्चिच्चतुर्विंशतिगुणवादिनां दशगुणवादिनां च सर्वेषामपि मत निरसनेन त्रय एव गुणाः स्वीकृताः । ते च रसगोचरा व्यंग्याश्च भवन्ति । एते त्रय


१ सुधा सितेषु इति क्व' पु' पाठः ।