पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४१६)
[ सप्तमः
अभिज्ञानशाकुन्तलम् ।


( नेपथ्ये )

  मा क्खु चाबलं करेहि । कहं गदो एव्व अचणो पकिदिं [मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम् ]

 राजा – ( कर्णं दत्त्वा ) अभूमिरियमविनयस्य । को नु खल्वेष निषिध्यते ।(शब्दानुसारेणावलोक्य | सविस्मयम्) अये, को नु खल्वयमनुवध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः।

अर्धपीतस्तनं मातुरामर्दक्लिष्टकेसरम् ।
प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥ १४ ॥


स्यात्तथा परिवर्तते व्यावर्तते । अर्थान्तरन्यासः । वृत्त्यनुप्रासोऽपि । मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम् । स्वभावचापलं कृतवाने- वेत्यर्थः । अभूमिरस्थानम् । अबालस्येव तत्त्वं बलं यस्य सः । अर्थेति । को नु खलु बालः केवलं कर्षणेनानायान्तं सिंहशिशुम् । बलात्कारेण कर्षतीति चूर्णिकया सहान्वयः । किं कर्तुम् । प्रक्रीडितुं क्रीडां कर्तुम् । मनोविनोदनार्थमिति भावः । एतेनावश्यकार्यार्थं साहसमपि क्रियेत क्रीडार्थं तत्कारित्वे । मानातिशयबलदर्पतया जगत्तृणवन्मन्यत इति ध्वन्यते । कीदृशम् । मातुरर्धपीतस्तनम् । शिशुनान्यत्कर्षणमेवदुष्करम्, तत्रापि सिंहशिशुकर्षणम्, तत्राप्यन्यस्मात्, तत्रापि मातुः क्रोडात्, तत्रापि स्तनंधयन्तमिति सर्वोत्कर्षो व्यज्यते । पुनः कीदृशम् । आमर्देनाकर्षणे- नावेगेन क्लिष्टा विसंस्थुलाः केसरा स्कन्धबाला यस्य तम् । स्वभावोक्तिः ।


मनोरथविषयाय इष्टवस्तुने लाक्षणिकोऽयं प्रयोगः । नाशंसे मनोरथं प्राप्तुं नेच्छामीत्यर्थः । हे बाहो आलिंगनकर्मनिपुण त्वं वृथा किमर्थं स्पंदसे स्फुरसि फलानुपपत्तेर्मास्फुन्दस्वेत्यर्थः । तत्त्वहेतुमाह - हीति । हि यस्मात्कारणात् पूर्वावधीरितं प्रथमनिरस्तं श्रेयः शुभं शकुन्तलारूपं दुःखं परिवर्तते परिणमति । तस्मात्कारणादिति संबंधः । अत्र मनोरथादिशब्दैः पुनर्बीजोद्भेदाद्बीजोद्भेदो नाम निर्व- हणसन्ध्यंगमुक्तम् ‘बीजोद्भेदः पुनः सन्धि’ इत्युक्तत्वात् । निर्वहणसंधिरुच्यते /* मुखा दि्सन्धयः सांगा यत्र बीजानुबंधिनः प्रयोजनैक्याद्द्योत्यन्ते तन्निर्वहणमीरितम् ॥ > अस्यांगानि ‘‘ संधिर्विरोधो ग्रथनं निर्णयः परिभाषणम् । प्रसादानंदसमयाकृतिभासोपगूह-


१ मा खु मा खु ( मा खलु मा खलु) इति क्व० पु० पाठः । २ शिक्ष्यते इति क्व० पु० पाठः । ३ तापसाभ्यां इति क्व० पु० पाठः ।