पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ७]
(४१७ )
टीकाद्वयसहितम्।


( ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः )

बालः - जिम्भ सिंघ, दन्ताइं दे गणइस्सं । [जृम्भस्व सिंह,

दन्तांस्ते गणयिष्ये ।]

प्रथमा – अविणीद, किं णो अपच्चणिव्विसेसाणि सत्ताणि विप्प-

अरेसि । हन्त, वढ्ढइ दे संरम्भो । ठाणे क्खु इसिजणेण सव्वद- मणो त्ति किदणामहेओ सि । [अविनीत, किं नोऽपत्यनिर्विशे- षाणि सत्त्वानि विप्रकरोषि । हन्त, वर्धते तव संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि ]

राजा – ( आत्मगतम् ) किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे

स्निह्यति मे मनः । नूनमनपत्यता मां वत्सलयति । द्वितीया - एसा क्खु केसरिणी तुमं लंघेदि जइ से पुत्तअं ण मुञ्चेसि ।[ एषा खलु केसरिणी त्वां लंघयिष्यति यदि तस्याः पुत्रकं न मुञ्चसि ]

बालः - ( सस्मितम् ) अद्महे, बलिअं क्खु भीदो ह्मि । ( इत्य-

धरं दर्शयति ) [अहो, बलीयः खलु भीतोऽस्मि ]


उदात्तमनुप्रासश्च । यथानिर्दिष्टं सिंहबालकाकर्षणरूपं कर्म यस्य सः । तपस्विनीभ्यामिति सहार्थे तृतीया । जृम्भस्व सिंह, दन्तांस्ते गणयिष्ये । अवनीत, किं नोऽस्माकमपत्यनिर्विशेषाणि सत्त्वानि प्राणिनो विप्रक- रोषि । हन्तेति खेदे । वर्धते तव संरम्भः स्थाने युक्तं खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि । एष खलु केसरिणीं सिहिं त्वां लंघयि- ष्यति तवोपद्रवं किंचित्करिष्यति ।‘ वर्तमानसामीप्ये वर्तमानवद्वा ’ इति वर्तमानप्रयोगः । यदि तस्याः पुत्रकं न मुञ्चसि । अद्महे आश्चर्ये । त्वद्वचनाद्बलिअं अधिकं भीतोऽस्मीति सोल्लुण्ठम् । अधरं विसृष्टं तस्यैव


नम् । पूर्वभाषोपसंहारौ प्रशस्तिश्च चतुर्दश ॥ ’’ इति । अहे बलवत्खलु भीतोऽस्मी-


१ बालस्तापसीभ्यां सह इति क्व० पु० पाठः । २ जिम्भ जिम्भ सिहडिम्भ (जृम्भस्व जृम्भस्व सिंहडिम्भ ) इति क्व० पु० पाठः । ३ कहं वड्ढिदो एव्व ( कथं वर्धित एव ) इति क्व० पु ० पाठः । ४ एवं इति क्व० पु० पाठः । ५ बलवत् इति क्व ० पु० पाठः ।