पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ७]
( ४१५ )
टीकाद्वयसहितम्।


 मातलिः - उत्सर्पिणी खलु महतां प्रर्थना । ( परिक्रम्य । आ- काशे ) अये वृद्धशाकल्य, किमनुतिष्ठति भगवान्मारीचः । किं ब्रवीषि। दाक्षायण्या पतिव्रताधर्ममधिकृत्य पृष्टस्तस्यै महर्षिपत्नी- सहितायै कथयतीति ।

राजा - ( कर्णं दत्त्वा) अये, प्रतिपाल्यावसरः खलु प्रस्तावः ।
मातलिः- (राजानमवलोक्य ) अस्मिन्नशोकवृक्षमूले तावदा-

स्तामायुष्मान्, यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि ।

राजा - यथा भवान्मन्यते । ( इति स्थितः )
मातालिः - आयुष्मन्, साधयाम्यहम् । ( इति निष्क्रान्तः )
राजा - ( निमित्तं सूचयित्वा )

मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा ।
पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥ १३ ॥


श्रुतिवृत्त्यनुप्रासाः । हेत्वलंकारो व्यङ्ग्यः । वृत्तमनन्तरोक्तम् । खलु यस्मादुत्सर्पिण्युपर्युपरि धावन्ती महतां प्रार्थनेति पूर्वार्धस्य समर्थकत्वाद- र्थान्तरन्यासः । अयं प्रस्तावः पातिव्रताधर्मकथनलक्षणः | खलु निश्चितम् । प्रतिपाल्योऽवसरः समयो यस्य सः । पुनरुक्तवदाभासेऽलंकारः । अशो- कवृक्षेत्यनेनात्रोपविष्टस्य शोकराहित्यं भविष्यतीति ध्वनितम् । अन्तरं मध्यमन्वेष्टुं शीलं यस्य सः । निमित्तं दक्षिणबाहुस्फुरणम् । मन इति । हे बाहो, वृथा किं स्पन्दसे स्फुरसि । वृथात्वं कुत इत्याह - मनो रथाय शकुन्तलारूपाय नाशंसे । मम तु मनोरथाशंसापि नास्ति प्राप्ति- स्तु दूरतो निरस्तेति भावः । मनोरथायेति विषयस्य निगरणादतिशयो- क्तिः । पूर्वमवधीरितं तिरस्कृतम्, न तु त्यक्तं श्रेयः कल्याणं दुःखं यथा


मोक्षार्थित्वमेवेति ध्वन्यते । आनंदवर्धनाचार्यस्तु अभिधालक्षणा तात्पर्याख्यव्यापार- त्रितयातिवर्तिव्यंजनध्वननादिशब्दवाच्यस्यापारविशेषः स्वीकार्य इति वदंति । अलंकार- शास्त्रप्रथमप्रवक्तारो भामहादयस्तद्दोषरहितौ गुणालंकाराविति ध्वन्यमानवस्त्वलंकारा- विति च काव्ये सर्वत्रालंकाराणामेव प्राधान्यं प्रत्यपादयन् । उत्सर्पिणीत्यादि । उत्सर्पिणी उद्गमनशीला अतिशयिनीत्यर्थः । मनोरथायेत्यादि । मनोरथाय


१ तर्हि इति क्व०पु०पाठः । २ अहं इति क्व० पु० पाठः ।