पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४१४ )
[सप्तमः
अभिज्ञानशाकुन्तलम् ।


प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने
तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया ।
ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो
यत्कांक्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी॥१२॥


किं करिष्यसीत्यर्थः । प्राणानामिति । सत्कल्पवृक्षेऽपि वन उचिताव- श्यकर्तव्या प्राणिनां वृत्तिः प्राणधारणक्रियानिलेन वायुना, न तु कल्पवृक्ष- दत्तवस्तुना । काञ्चनपद्मरेणुभिः कपिशे पिङ्गटवर्णे तोये जले धर्मार्थम्, न तु भोगार्थमभिषेकक्रिया स्नानविधिः । रत्नशिलातलेषु ध्यानम् । आधा- रमात्रपर्यवसितत्वात्, न तु रत्नशिलातलत्वेन तत्र क्रीडादि । विबुधस्त्री- संनिधौ देवयोषिदभ्याशे संयमः । अन्यसंनिधावेव स नियमो न सिद्ध्यति विशेषतः स्त्रीसंनिधौ । ततोऽपि देवस्त्रीसंनिधावित्यर्थः । अत्र कल्पवृक्षादीनां कारणानां सद्भावे सति तत्कार्यभावे वक्तव्ये तद्विरुद्धा- निलप्राणवृत्तित्वाद्युक्तेरुक्तनिमित्ता मालाविशेषोक्तिः । एतया चैतन्निवा- सिनां तपस्विनां धैर्यातिशयो व्यज्यते । अन्यमुनयो भूमिष्ठास्तपस्विनो यत्स्थानं तपोभिः कांक्षन्ति तपःफलेनेच्छन्ति तस्मिन्स्थानेऽपि तपस्यन्ति तपश्चरन्ति । ‘कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यङ् । तपसः ‘ परस्मैपदं च ’ इति परस्मैपदम् । तपोतप इति न्यनयेति स्तस्तेति छेक-


कष्टं दुष्करं तपो यस्य स तथोक्तः तस्मै । प्राणानामित्यादि । सत्कल्पवृक्षे विद्यमान- कल्पवृक्षे न तु कल्पवृक्षसदृश इति यावत् । वने कल्पवृक्षसमुदायस्थले कल्पवृक्षपदेन सार्वकालिकाक्षय्यसकलभोज्यधार्यपदार्थाधिकरणता ध्वन्यते । तत्रापि वनपदेन कल्पवृ- क्षाणां बाहुल्यं सूच्यते । तथापि प्राणानामुचिता स्वारसिका वृत्तिर्जीवनम् । अनिलेन वायुना न तु मधुरादिभोज्यपदार्थैरिति यावत् । कांचनपद्मरेणुकपिश इत्यनेन विविध- जलक्रीडार्हता ध्वन्यते । धर्माभिषेकक्रिया धमार्थमेवाभिषेकक्रिया स्नानाचरणं न तु जलक्रीडेति व्यज्यते । रनशिलातलेष्वित्यनेन विहारयोग्यावस्थानं सूच्यते । बहुवचनेन विविधरत्नशिलातलप्रदेशाः सूच्यन्ते । ध्यानं ध्यानमार्गे चित्तमनुरक्तं भवति न तु विहार इति व्यज्यते । विबुधस्त्रीसन्निधौ देवानामपि विकारजनकस्त्रीसन्निधाने संयमः इन्द्रियनिग्रहः न तु मदनविकारजनितसात्त्विकभावादिनिष्पत्तिरिति भावः । एभिः सत्कल्पवृक्षत्वादिविशेषैरयं प्रदेशः स्वर्ग एवेति प्रतीयते । अन्ये मुनयः मननशीलाः तपोभिरिति बहुवचनेन तपःकरणस्य बहुविधत्वं प्रतीयत । यकांक्षन्ति यत्स्थानं वांच्छन्ति तस्मिन्स्वर्गप्रदेशे । अमी मुनयस्तानि फलानि परिहृत्य तपस्यन्ति अनेन तेषां