पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ७]
( ४२३ )
टीकाद्वयसहितम्।


राजा - नमस्ते कष्टतपसे ।
मातलिः - ( संयतप्रग्रहं रथं कृत्वा ) महाराज, एतावदिति परिव-

र्धितमन्दारवृक्षं प्रजापतेराश्रमं प्रविष्टौ स्वः ।

राजा - स्वर्गादधिकतरं निर्वृतिस्थानम् । अमृतह्रदमिवावगा-

ढोऽस्मि ।

मातलिः - ( रथं स्थापयित्वा ) अवतरत्वायुष्मान् ।
राजा - ( अवतीर्य ) मातले, भवान्कथमिदानीम् ।
मातलिः - संयन्त्रितो मया रथः | वयमप्यवतरामः । ( तथा

कृत्वा ) इत आयुष्मन् । ( परिक्रम्य ) दृश्यन्तामत्रभवतामृषीणां तपोवनभूमयः ।

राजा - ननु विस्मयादवलोकयामि ।

नीडं स्थानं तेन निचितं व्याप्तम् । ’स्थाने कुले चयः' इति विश्वः । जटानां मण्डलं समूहं बिभ्रत् । अनेन परनिमित्तसंपत्त्वं द्योत्यते । स्थाणुरिवाचलो निश्चलः । स्थाणुपक्षेऽपि विशेषणानि योज्यानि । उरसा मध्येन ! कण्ठ उपकण्ठे । समीप इति यावत् । अंसः स्कन्धः । जटा प्ररोहरूपा । असौ मुनिरर्कबिम्बमभिलक्ष्यीकृय । कर्मप्रवचनीयत्वेन तद्योगे द्वितीया । यत्र स्थितः । स मारीचश्रम इत्यन्वयः । परिकरश्लेषोपमानुप्रासाः । शार्दूल- विक्रीडितं वृत्तम् । संयता नियमिताः प्रग्रहा रश्मिरज्जवो यत्र तत् । रथमित्यर्थम् । कृत्वेति कविवचनम् । रथस्य भूमिस्पृष्टत्वादिति कृत्वा मातलिर्वदतीत्यन्वयः । किमुक्तं तत्राह - एतावाश्रमं प्रविष्टौ स्व इति । अदितिस्तत्पत्नी तया परिवर्धिता मन्दरवृक्षा यत्र । स्वर्गादधिकतरं निर्वृतिस्थानं मुखस्थानमिति भिन्नं वाक्यम् । अमृतेति । ज्ञानामृतह्रदाव- गाआहन इवेत्युत्प्रेक्षा । अत्र पूर्ववाक्यं हेतुत्वेन ज्ञेयम् । कथमिति प्रश्ने ।


रहिततरुस्कंधः इव अचलः स्थिरः सन् । अभ्यर्कबिंबम् अर्कबिंबाभिमुखम् । कष्टतपसे


१ नमोsस्त्वस्मै इति क्व० पु० पाठः । २ अवतीर्यताम् इति क्व० पु० पाठः । ३ इत इतः इति क्व० पु० पाठः ।