प्रतीहारी--एव्वं णाम घोसइदव्वं । ( निष्क्रम्य । पुनः प्रविश्य )
काले पवुट्टं विअ अहिणन्दिदं देवस्स सासणम् । [ एवं नाम
घोषयितव्यम् । काले प्रवृष्टमिवाभिनन्दितं देवस्य शासनम् ]
राजा–( दीर्घमुष्णं च निःश्वस्य ) एवं भोः संततिच्छेनिरवल- म्बानां कुलानां मूलपुरुषावसाने संपदः परमुपतिष्ठन्ति । ममा- प्यन्ते पुरुवंशश्रीरकाल इवोप्तबीजा भूरेवंवृत्ता ।
प्रतीहारी-पडिहदं अमङ्गलम् ।[ प्रतिहतममङ्गलम् ]
राजा-धिङ्मामुपस्थितश्रेयोवमानिनम् ।
सानुमती--असंसअं सहिं एव्व हिअए करिअ णिन्दिदो णेन अप्पा । [ असंशयं सर्वमेव हृदये कृत्वा निन्दितोऽने नात्मा ]
राजा--
संरोपितेऽप्यात्मनि धर्मपत्नी
त्यक्ता मया नाम कुलप्रतिष्ठा ।
कल्पिष्यमाणा महते फलाय
वसुंधरा काल इवोप्तबीजा ।। २४ ।।
एवं नाम घोषयितव्यम् । काले प्रवृष्टमिवापेक्षितसमये प्रवर्षणमिवाभिनदितं देवस्य शासनामिति । अकाल उप्तबीजा भूरिव ममाप्यन्ते पुरुवंशश्रीरे वंवृत्तेत्यन्वयः । प्रतिहतममङ्गळम् । उपस्थितं प्राप्तं श्रेयः सगर्भशकुंतला- रूपम् । असंशयं सखीमेव हृदये कृत्वा निन्दितोSनेनात्मा । संरोपित इति । नामेतेि संभावनायाम् । मया तादृशधार्मिकेण तादृशसावधानेन संरोपेितेऽप्यात्मनि पुत्रगर्भ उत्पादितेऽपि । 'आत्मा वै पुत्रनामासि ' इति श्रुतेः । कुलप्रतिष्ठा पुत्रप्रसूतत्वाद्धर्मपत्नी व्यक्तावधीरिता काले स्वसमय उप्तबीजा न्यस्तबीजात एव महते फळायु सस्याय कल्पिष्यमाणा
संरोपित इत्यादि । आत्मनेि खस्मिन्संरोपिते उप्ते सति यस्मादात्मैव पत्न्यां जायते तस्मादात्मनि संरोपित इत्युक्तम् । तथा श्रुतिः “ अंगादंगात्संभवति हृदयादधिजायते ।
१ अमच्चेण ( अमात्येन ) इत्यधिकं क्वo पु० । २ पुरुवंशश्रियोऽप्येष एव वृतांतः इति क्वo पु० पाठः ।