पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३८६ )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


 प्रतीहारी--देव, दाणिं एव्व साकेदअस्स सेट्विणो दुहिआ णिव्वुत्तपुंसवणा जाआ से सुणीअदि । [देव, इदानीमेव साके तस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायस्य श्रूयते ]

 राजा---ननु गर्भः पित्र्यं रिक्थमर्हति । गच्छ। एवममात्यं ब्रूहि ।

 प्रतीहारी-जं देवो आणवेदि । ( इति प्रस्थिता ) [ यद्देव आज्ञापयति ]

 राजा--एहि तावत् ।

 प्रतीहारी–इअह्मि ।[ इयमस्मि |

 राजा--किमनेन संततिरस्ति नास्तीति ।

  येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना ।
  स स पापादृते तासां दुष्यन्त इति घुष्यनाम् ॥ २३ ॥


' व्यसनं विपदि भ्रंश ' इत्यमरः । विचार्यतामन्विष्यताम् । तस्य वाणिजो भार्यासु मध्ये काचिद्भर्यापन्नसत्वा गुर्विणी स्यात् । देव, इदानीमेव साकेतस्यायोध्यायाः ।' स्यात्साकेतोऽयोध्यायाम् ' इति हैमः। श्रेष्ठिनो दुहिता निवृत्तपुंसवना जाया भार्यास्य श्रूयते । पित्र्यं पितृसंबन्धि रिक्थं धनम् । ' रिक्थं धनं वसु ' इत्यमरः । यद्देव आज्ञापयतीति । इयमस्मि | यनेन । पापादृते । स्त्रीणां भर्तृवेन विनेत्यर्थः । छेकवृत्त्यनुप्रासौ ।


नन्विति। गर्भः गर्भस्थः पुत्रः । पित्र्यं पितुरागतम् । “ तुद्यश्च ” इति यप्रत्ययः । येनेत्यादि। प्रजाः जनाः न तु श्रेष्ठिभार्यैका । किंतु सर्वाः प्रजा इत्यर्थः । येन येन स्निग्धेन बन्धुना पितृभ्रातृपुत्रादिना वियुज्यंते जन्ममरणसुखदुःखदीनामनियतत्वात् कालवशाद्वियुक्ता भवंति । तासां वियुकानां प्रजानां दुष्यन्तः पापादृते पापं विना स स बन्धुः। यस्य पिता नास्ति तस्य पिता यस्य पुत्रो न विद्यते तस्य पुत्रः यस्य भ्राता नास्ति तस्य भ्रातेति घुष्यतां घोषणां क्रियताम् । पटहवाद्यपुरःसरं नगरे प्रकाश्यतामित्यर्थः । पापादृते इत्यनेन यस्याः पतिर्नास्ति तस्याः पतिर्न भवामीति भावः । पित्रादिनिर्वर्त्यानां पोषकत्वादीनामहमेव निर्वर्तक इत्यभिप्रायः ।


१ तस्सं जाआणां मज्झे साकेदसेतट्टिणो ( तस्य जायानां मध्ये साकेतश्रेष्ठिनः ) इति । क्व० पु० पाठः ।