पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३७७ )
टीकाद्वयसहितम्।


 विदूषकः--( आत्मगतम् ) १जह अहं देक्खामि पूरिदव्यं णेण चित्तफलअं २लम्बकुच्चाणं तावसाणं कदम्बेहिं३

। [ यथाहं पश्यामि

पूरितव्यमनेन चित्रफलकं लम्बकूर्चानां तापसानां कदम्बैः ]

 राजा--वयस्य, अन्यच्च शकुन्तलायाः प्रसाधनमभिप्रेतमम्माभिः।

 विदूषकः--किं विअ।[ किमिव ]

 सानुमती--वणवसस्स सोउमारस्स अविणअस्स अ जं सरिसं भवि- स्सदि। [ वनवासस्य सौकुमार्यस्याविनयस्य च यत्सदृशं भाविष्यति]

 राजा--

 कृतं न कर्णार्पितबन्धनं सखे शिरीषमागण्डविलम्विकेसरम् ।
 न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचितं स्तनान्तरे।१८।।


पादानादुदात्तालंकारश्च । शार्दूलविक्रीडितं वृत्तम् । यथाहं पश्यामि । पूरितव्यमनेन [ चित्रफलकं ] लम्बकूर्चानां तापसानां कदम्बै: समूहैः। प्रसाधनमलंकरणम् । अभिप्रेतमभिमतम् । किमिव । वनवासस्येत्यनेन पुष्पादिकम्, सौकुमार्यस्य चेत्यनेन कुसुमानामपि यत्कोमलतरं तदेक द्वित्रिधारणं च, अविनयस्य चेत्यनेन शेखरादिव्यावर्तनं व्यज्यते ! यत्स दृशं भविष्यति । कृतमिति । अत्र कर्णशब्देन स्वस्य तेन भूषणवत्वं बोधयता नैकट्यात्कर्णशिरोऽन्तरालदेशो लक्ष्यते । तेन परस्परोपकारकरणादन्योन्या लंकारो व्यङ्ग्यः । तत्रार्पितमारोपितं बन्धनं वृन्तं यस्य तत् । गण्डं मर्यादीकृत्य विलम्बिताः केसरा यस्य तत् । एतेन केवलं कथं न भूषयाति, अपि तु गण्डमपीति व्यज्यते । शिरीषं शिरीषपुष्पं न कृतम् । हे सखे । शिरीषपदेन कोमलत्वं ध्वनतान्यत्तद्यो ( तदयो ) ग्यमिति तस्याः सुकुमाराङ्गत्वं व्यज्यते । शिरीषाकंसेन (?) मध्ये तत्र तस्यैव समावेशयोग्यत्वात् । एतेन तत्स्तनयोरतिपीवरतया परस्परोत्पीड नत्वम् तेनालिङ्गनयोग्यत्वम्, तेन च तदप्राप्त्या स्वस्याधन्यत्वादि व्यज्यते ।


निर्मातुमिच्छामि । जइ इत्यादि । सार्थः समूहः । कृतमिस्यादि । कर्णे केशपा-


१ जइ एवं णं णेण ( यद्येवं नूनमनेन ) इति क्व० पु० पाठ: । २ लम्बकुचाणं तावसीणं ( लम्बकुचानां तापसीनां ) इति क्व० पु० पाठः। ३ सद्धेण (सार्थेन) इति क्व० पु० पाठः । ४ अत्र विस्मृतं इत्यधिकं क्व० पू० ।। ५ अ जं अणुसारिसं तं ( च यदनुसदृशं तत् ) इतेि० क्व० पु० पाठः ।