पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३७८ )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


 विदूषकः-भो, किं णु१ तत्तहोदी रत्तकुवलअपल्लवसोहिणा२ अग्गहत्थेण मुहं ओवारिअ३ चइदचइदा विअ ठिआ। । ( सावधानं निरूप्य । दृष्ट्वा ) आ, एसो दासीए पुत्तो ४कुसुमरसपाडच्चरो तत्त होदीए वअणं ५अहिलंघेदि महुअरो । [ भोः, किं नु तत्रभवती रक्तकुवलयपल्लवशोभिनाग्रहस्तेन मुखमपवार्य चकितचकितेव स्थिता । आ:, एष दास्याः पुत्रः कुसुमरसपाटच्चरस्तत्रभवत्या वदनमभिलङ्घति मधुकरः}

 राजा--ननु ६वार्यतामेष धृष्टः ।
 विदूषकः-भवं एव्व ७अविणीदाणं सासिदा इमस्स वारणे पहविस्सदि ।[ भवानेवाविनीतानां शासितास्य वारणे प्रभविष्यति]


रचितं न चेति सबन्धः । अत्राप्यन्योन्यशोभाहेतुत्वेनान्योन्यालंकरो व्यङ्ग्य:। क्रिययोः समुच्चितत्वात्समुच्चयालंकारः। एकाधिकरणत्वेनापि तस्येष्टत्वात् । उपमा च । श्रुतिवृत्यनुप्रासयोः संकरः । शिरीसरेति रीचि- रचीति न्त्रन्तरे इति छेकानुप्रासोऽपि । ‘श्लेषानुप्रासयमकचित्रेषु सशयोर्न भित् ' इत्याद्युक्तेः । वंशस्थं वृत्तम् । किं नु तत्रभवती रक्तकुवलयस्य पल्लवः पत्रं तद्वच्छोभिना | यद्वा रक्तौ कुवलयपल्लवैौ तद्वच्छोभिना अग्रहस्तेन मुखमपवार्य चकितचकितेव स्थिता । किं न्विति संबन्धः । एष दास्याः पुत्रः कुसुमरसपाटच्चरः पुष्पमधुचौरः । अनेनैवपराधेन दण्ड्योऽपराधान्तरे च सुतरां दण्डनीय इति व्यज्यते । यस्याः कस्याश्चिन्न, अपि त्वत्रभवत्याः पूज्याया वदनमभिलङ्घयति । मधुकर इति साभिप्रायम् । राज्ञस्तु तद्देश एव तिष्ठामीति बुद्ध्या नन्वित्याद्युक्तिः । विदूषकस्तु चित्रगतस्य वार- यितुमशक्यत्वादिति सोल्लुण्ठं स्वभावोक्तिमाह-भवानेवाविनीतानां शासि तास्य वारणे प्रभविष्यति । राजा तु तादृक्त्वबुद्धे ( द्धयै ) व प्रत्युत्तर


१ खु (खलु) इत्यधिकं क्व०' पु०' पाठः । २ दल इति क्व० पु० पाठः । ३ आवारअ { आवृत्य ) इति क्व० पु० पाठः । ४ कुसुमासव इति क्व० पु० पाठः । ५ अदिलंघदि दुट्टं(अतिलंधते दुष्टः ) इवि क्व० पु० पाठः । ६ निवार्यतामेष दुष्टः इति क्व० पु० पाठः ७ अविणीदाणुसासी ( अविनीतानुशासी ) इति क्व० पु० पाठः ।