पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३७६ )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


अनेन पद्येनाश्रमस्थं पूर्वानुभूतं तदानीन्तनमुद्दीपनं विभावगणं स्मरति । ते च स्मृताः संभ्रमप्रवासहेतुकं विरहमेव पोषयन्ति । सैकते लीनं हंसमिथुनं यस्याः सा । अनेनोद्दीपकत्वातिशयो व्यज्यते । मालिनीनाम्नी स्रोतोवहा नदी कार्या । स्रोतोवहेत्यनेन जलवाहित्वम् , तेन स्वभावपरित्यागः तेन रमणीयत्वम् , तेन चोद्दीपकत्वं व्यज्यते । मालिनीमभित इत्यभि तोयोगे द्वितीया । गौरीगुरोर्हिमवतः । अनेन कन्यापितृत्वेन तद्दु:खानुभवा त्तत्प्रदेशेऽविघ्नितसंकेतत्वं द्योत्यते । निषण्णहरिणा इत्यनेनात्यन्तविवि क्तत्वम् , तेन भृशमुद्दीपकत्वम् , तेन च सुरतक्षमत्वं ध्वन्यते । पावना इत्यनेन शुचित्वेन रम्यत्वेन पर्यवसानम् । पादाः प्रत्यन्तपर्वताः। कार्या इत्यनुषज्यते । शाखास्वालम्बितानेि वल्कलानेि वृक्षत्वचो यस्य । अनेना श्रमपथानतिदूरत्वेन तस्याः शालीनत्वं ध्वनितम् । तस्य तरोरधः कृष्ण मृगस्य कृष्णसारस्य शृङ्गे । वामनयनमिति स्त्रीस्वभावत्वात् । कण्डूय मानां मृगीं निर्मातुमिच्छामि । अत्र कण्डूयनं शृङ्गारानुभावसूचकं घर्षण मात्रम् । अनेनाप्युद्दीपकत्वं ध्वनितम् । पूर्वं कार्येत्युक्त्वा निर्मातुमिच्छा मीत्युक्तिस्तु घर्षणस्य लेखनायोगात् । तेनैतदपीच्छामि । न वस्तुतः कर्तव्यमिति भावः । स्वभावोक्तिः | लीनलिनीति गौरीगुरोरिति मृगमृगी- मिति मनमानामितेि छेकवृत्तिश्रुत्यनुप्रासाः । गैौरीगुरोरिति प्रसङ्गो


संसक्तानि हंसमिथुनानि इतरपक्षिविलक्षणरमणीयगतिशब्दवर्णयुक्तहंसद्वन्द्वानि यस्याः सा तथोक्ता । अनेन पुलिनविहरणवेतसगृहवासजलकीडादिलीलासमुचितप्रदेश इति ज्ञाप्यते । पुलिनशब्देन तत्र विहरणे सशीकरपवनस्पर्शः सूच्यते । हंसमिथुनशब्देन पक्षिजाते: सार्वकालिक्रीडया परमोद्दीपकत्वमुक्तम् । तां मालिनीमभितः । पादाः प्रयन्तपर्वताः । अनेन न गिरिगह्वरकुञ्जनिर्झरादिषु परस्परात्मगोपनक्रीडाद्यर्हप्रदेश इति व्यज्यते । गैरीगुरोः हिमाद्रे: । अनेनामानुषप्रभावजनगम्यप्रदेश इति प्रतीयते । निषण्णहरिणा इत्यनेन विजातीयमृगकुलावस्थानात् निरर्गलक्रीडोचितविविक्तप्रदेश इति ज्ञाप्यते । शखालम्बितवल्कलस्येत्यनेन धर्मारण्यत्वसूचकत्वमुक्तम् । वामनयनमिति स्त्रीजातेर्वाम- भागस्य मन्मथकलाधिष्ठानत्वात् वामनयनमित्युक्तम् । इच्छामीति । कण्डूतिक्रियायाः चित्रे लिखितुमशक्यत्वादिच्छामीत्युकम् । अत्र. न केवलं शकुन्तलारूप लावण्या द्यतिशयेन तदनुरागातिशयो जातः किन्तु रमणीयदेशकालविभावेनापि शृङ्गारो मूर्धन्यः संवृत्त इति भावः । कृष्णमृगस्य शृङ्गे वामनयनं स्वकीयं सव्यनेत्रं कण्डूयमानां मृगीं