पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३७३ )
टीकाद्वयसहितम्।


 विदूषकः--तक्केमि आ एसा सिढि१लकेसवन्धणुवन्तकुसुमेण केसन्तेण उब्भिण्णस्सेअबिन्दुणा वअणेण विसेसदो ओसरि आहिं बाहाहिं२ अवसेसिणिद्धतरुणपल्लवस्स चुअपाअवस्स पासे इसि परिस्सन्ता विअ आलिहृिदा सा३ सउन्दला। इदारओ सही ओ त्ति | [ तर्कयमि यैषा शिथिलकेशबन्धनोद्वान्तकुसुमेन केशान्तेनोद्भिन्न स्वेदबिन्दुना वदनेन विशेषतोऽपमृताभ्यां बाहुभ्यामवसेकस्निग्ध तरुणपल्लवस्य चूतपादपस्य पार्श्व ईषत्परिश्रान्तेवालिखिता सा शकुन्तला । इतरे सख्याविति ]

 राजा--निपुणो भवान् । अस्त्यत्र मे भावचिह्नम् ।

स्विन्नांगुलिविनिवेशो रेखाप्रान्तेषु४ दृश्यते मलिनः।
अश्रु च कपोलपतितं दृश्यमिदं५ वर्तिकोच्छ्वासात्६॥ १५ ॥ ॥


दृष्टिर्मुग्धदृष्टिरयं जनः । तर्कयामि यैषा शिथिलितकेशबन्धनोद्वान्तकु सुमेन केशान्तेनोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतोऽभिक्रमपमृताभ्यां नतांसाभ्यां बाहुभ्यां भुजाभ्यामवसेक स्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व ईषत्परिश्रान्तेव । अत्र पूर्वं तृतीयान्तत्रयं हेतुत्वेन योज्यम् | आलि- खिता सा शकुन्तला | इतरे सख्यौ भावेन सात्विकभावेन कृतं चिह्नं भावचिह्नम् । मध्यमपदलोपी समासः । ' तावच्चिह्नम् ' इति पाठे सुबो धमेव । स्विन्नेति । स्विन्ना या अङ्गुल्यः सात्विकभावात्तासां विनिवेशः स्थितिः । रेखाप्रान्तेषु तत्रैकचित्रपटसंप्रयोगान्मलिनो दृश्यते । मलिनत्वं स्वेदादेव चित्रपटोद्घर्षणात् । कपोलपतितं लिखिताकृतिकपोलप्राप्तमश्रु


गौरवभिया योजनान्तरं न क्रियते । तक्केमि इत्यादि । वाहुभ्यामुपलक्षितेत्यर्थः । अस्तीत्यादि । भावचिह्नं दर्शनीयानां तिसृणां मध्ये शकुन्तलाज्ञापकं चिह्नमस्ति । चित्रलेखनसमये स्वानुरागालम्बनभूतोत्तमनायिकायाः सर्वावयवरूपलायण्यादिस्मरणजनित सात्विकभावजनितचिह्नमस्तीत्यर्थः । कुतः कस्मात्कारणात् । स्विन्नेति । रेखाप्रान्तेषु अङ्गोपाङ्गप्रत्यङ्गादिविभागज्ञापकतत्तद्वर्णोचितमपीहरितादिरेखापर्यंतेषु स्विन्नाङ्गुलिविनिवेशः


१ सिढिलबन्धुस्र्वत्तकुसुसेण (शिथिलबन्धोदृत्तकुसुमेन ) इति क्व०पु०पाठः। २ वाहाहिं उवलक्खिदा ( वाहाभिरुपलक्षिता ) इति क्व० पु० पाठ:। ३ एमा तत्तहोदी { एषा तत्रभवती ) इति क्व० पु० पठ:। ४ रेखोपान्तेषु इतेि क्व० पुo पाठः ।। ५ लक्ष्यं इति क्व० पु० पाठ:। ६ वर्णिका इतेि क्व० पु० पाठ: ।