पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३६२ )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


चतुरिके, अर्धलिखितमेतद्विनोदस्थानम्१ । गच्छ। वर्तिकां तावदानय।

 चतुरिका--अज्ज माढव्व, अवलम्ब चित्रफलकं जाव२ आअ छामि । [आर्य माढव्य, अवलम्बस्व चित्रफलकं यावदागच्छामि।

 राजा--अहमेवैतदवलम्बे । ( इति यथोक्तं करोति )

( निष्क्रान्ता चेटी )

 राजा---३अहं हि

साक्षात्प्रियमुपगतामपहाय पूर्वं
चित्रार्पितां पुनरिमां४ बहु मन्यमानः ।
स्रोतोवहां पथि निकामजलामतीत्य
जातः सखे प्रणयवान्मृगतृष्णिकायाम् ॥ १६ ॥


मम सात्विकभावेनोत्पनं चेदं वर्तिका चित्रपटे लेपविशेषस्तस्योच्छास उच्छूनता तस्मात् ।‘ पटलेपे पक्षिभेदे तूलिकायां च वर्तिका ' इत्यजयः । अनुमानानुप्रासौ । अनेन हेतुलक्षणं भूषणमुपक्षिप्तम् । तल्लक्षणं तु--' स हेतुरिति निर्दिष्टो यत्साध्यार्थप्रसाधकम् ’ इति । वर्तिकां तूलिकाम् । आर्य माढव्येति विदूषकसंज्ञा । अवलम्वस्व चित्रफलकं यावदागच्छामि । साक्षादिति । पूर्वमव्यववहित समये । न तु कालान्तरे । अन्यथोपगतामितेि प्रकृतिप्रत्ययार्थेनार्थपौनरुक्त्यं स्यात् । केवलं नारीमात्रं न, अपि तु प्रियाम् । साक्षात्प्रत्यक्षेण । 'साक्षात्प्रत्यक्षतुल्ययोः' इत्यमरः । उप. समीपे गतां प्राप्ताम् । न चाभासमात्रेण न त्वश्रुकागमनम् (?) । अथ च प्रत्यक्षेण प्रियामिति ज्ञातामपहायावगणय्य । न तु त्यक्त्वा ?


नायिकास्मरणजनितस्त्रन्दयुक्ताङ्गुलीनां विनिवेशः स्पर्शस्थानं मलिनः प्रसरत्स्वेदजलसंपर्क वशात् मलीमसो दृश्यते स्फुटं विभाव्यते । अश्रु च तदीयप्राप्तिदुर्घटत्वप्रत्यादेशादिस्मरण जनितदुःखपरंपराजनितनेत्रजलं च वर्णिकोच्छ्वासात् वर्णिकायाः सितासितहरितादिवर्णि काया उंच्छूनत्वाद्धेतोः कपोलपतितम् आलेख्यस्य कपोले पतितम् । लक्ष्यं विभाव्यम् । चित्रनिर्माणसमये नेत्रजलप्रादुर्भावेन हस्तशैथिल्यविलम्बेन तत्र किंचिद्वर्णाधिक्यं भवति । तस्मादुच्छूनतेति यावत् । वर्तिकोच्छ्वासादित्यपि पाठः । साक्षादित्यादि । प्रियां शृ़्ङ्गार


१ तस्माद्गच्छ वर्णिकां इति क्व० पु० पाठः । २ वण्णिआसमुग्गअं गह्णिअ ( वर्णि- कासमुद्गकं गृहीत्वा ) इत्यधिकं क्व० पु०