पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३६२ )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


शिष्यस्तस्मिन्गुरुसमे कण्वसमे वदति सति पुनरनन्तरं बाष्पस्याश्रुणः प्रसर आधिक्यं तेन कलुषामाविलां दृष्टिं कूरै कठिने । इदं व्यङ्गयावका- शदानाय । यथा -‘तद्गेहं नताभान्तमन्दिरम् ’ इत्यादौ । मयि निर्घृण- हृदये परोपकारानिरते तादृशनिरुपाधेवञ्चकेऽलीकधर्मकंचुक इत्यर्थान्त- रसंक्रमितवाच्यम् । अर्पितवती यत्तन्मां दहतेि । अत्र दृष्टेर्दाहकत्वासं- भवान्मुख्यार्थबाधे कार्यकारणसंबन्धात्तापं लक्षयंस्तदतिशयं व्यञ्जयतीति दहातिपदमत्यन्ततिरस्कृतवाच्यम् । किमिव । सविषं शल्यमिव । वि- षाक्तः । ' शल्यं शंकौ शरे वंशे कम्बिकायां च तोमरे ' इति


इयादिवाक्यैर्न्यक्कारं प्राप्य । ल्यव्लोपे पंचमा । स्खस्मात् प्रत्वादेशादिति वक्तव्ये/ इत इत्यनेन तादृक् शकुन्तलापरिस्यागेनात्मनिन्दा व्यज्यते । अतस्तदनभिधानमिति भावः । स्वजनमनुगन्तुं व्यवसितेति । स्वजनपदेन स्वजनप्रतियोगिशत्रुभूते स्वामिन शकुन्तलायाः “ शत्रुः किं न वदेदसत् ” इति न्याय्येन बहुपारुष्यवाक्यानुभवः सूच्यते । अनुगन्तुं व्यवसिता उद्युक्ता न त्वनुगता । गमनव्यवसायमात्रकथनेन तादृक्प्रयादेश दशायामपि स्वस्मिन् शकुन्तलाया भर्तृत्वापरित्याज्यबुद्धिः सूच्यते । ततः पश्चात् ? गुरुशिष्यै-आः पुरोभागिनीत्यादिना पितरुत्पथया त्वयेत्यादिना च तिष्ठेत्युच्चैर्वेदति सति मृदुभाषणार्हस्वजनभावं विहाय विपरीतपरुषवाक्यमालपति सति । गुरुसम इत्यनेन हितवचनप्रदानात्तद्वचनस्यानुल्लंघनांयता प्रकाश्यते । पुनः प्रतिकूले तव दास्यमपि क्षममिति कथितगुरुशिष्यवचनं प्रमाणीकृत्य पश्चादपीति यावत् । कूरे कृतकार्यस्मर- णाभावेन स्वनिमित्तकव्यसनाभिभूतजनविषयक्रदयाकरणभावाद्दारुणे । मयीति- "भती रक्षति यौवने" इति न्याय्येन सकलभोगानुभवकारणभूते मयति यावत् । दृष्टिमित्यनेन एवमादिभिरात्मकार्यनिर्वर्तिनीनां योषितामित्य दिवाक्यैस्तद्वचस्य प्रामाण्या- रोपात् पुनर्दृष्ट्यर्पणभुक्तम् । एकवचनेन' पौरवकुरूनुचितकृतव्रतां करोषीति मय्येकदृष्टयर्पण स्वां परित्यज्य गमिष्यतीति भिया गुरुशिष्ये एकदृष्ट्यर्पणमिति भावः । बाधप्रसर कलुषाम् अकृत्रिभदुःखपरंपराजनितबाष्पनिर्गमाविलाम् । आर्पितवतीति यत् तत् सविषमिव विषूलिप्तमिव । विषं यथा रसादिशुक्रपर्यंतेयु धातुघु प्रसपर्न्नशुमारक व्यवायिविकासिंगुणद्वययोगाद्विकारः प्रत्यंगध्यार्पा भवति तद्वदिति भावः । तदुक्तं "व्यवायी देहमखिलं व्याप्य पाक्राय कल्पते । विकासा विकषृण्वातून् सन्धिर्व- धान्विमुंचति ॥ इति । शल्यं शरः ‘* शल्यं शंकौ शरे वंशे '~ इति विश्वः । विष- लिप्तमाणविद्वस्य यादृशः सर्वावयवसंतापस्तादृशः स्वस्य भवतीति भावः । यदाह "कार्यं तु प्रथमे वेगे द्वितीये वेपथुं तथा। दाहं तृतीये हिक्कां तु चतुर्थे संप्रयोजयेत् ।।" इति । स्थिता तिष्ठेत्युच्चैरिति पाठान्तरम् । इतः प्रत्यादेशात् मम कलत्रं न भवसीति भयोच्यमाना सती स्वस्मान्न्यक्कारमधिगम्य भर्तुविमानिताथाः स्रियाः पितृकुलमेव शरण-