पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३६३ )
टीकाद्वयसहितम्।


 सानुमती-अम्महे ।ईदिसी सकज्जपरदौ । इमस्स संदावेण अहं रमामि । अहो । ईदृशी स्वकार्यपरता । अस्य संतापेनाहं रमे ।

 विदूषकः--भो, आत्थि मे तक्को । केण वि तत्तहोदी आआत- चारिणा णीदे त्ति । भोः, अस्ति में तर्कः । केनापि तत्रभवत्या काशचारिणा नीतेति ॥

 राजा- कः पतिदेवतामन्यः पशुमर्ष्टुर्भुत्सहेन । मेनका किल सख्यास्ते जन्मप्रतिष्ठेति श्रुतवानस्मि। तत्सहचारिणीभिः संखी ते हृतेति मे हृदयमाशङ्कते ।


विश्वः । उपमानुप्रासौ । तादृशदृष्टेस्तादृशेऽर्पणात्समं च । गुरुशेष्ये गुरुसम इत्यत्र कथितपदत्वं न शङ्कनीयम् । तास्पर्यभेदेन लाटानुप्रासार्थ- मेव तथा प्रयुक्तत्वात् । उत्तरत्र पदे वचनस्याकारित्वभयकारणत्वद्योत- नादितात्पर्यमवगन्तव्यम् । शिखरिणी वृत्तम् । अम्महे आश्चर्ये । ईदृशी स्वकार्यपरतेत्यर्थान्तरन्यासः। अस्य संतापेनाहं रमामि ( मे )। मम संतोष इत्यर्थः । संतापे संतोष इति विषमम् । एतद्वाक्यार्थसमर्थकः पूर्वोक्तोऽर्थान्तरन्यासः । यथा यथास्य तापस्तथा तथा शकुन्तलानयनो पायं प्रति प्रयत्नवान्भविष्यतीत्याशयः | अस्ति मे तर्कः। केनापेि तत्र भवत्याकाशचारिणा नीतेति । पतिदेवतां पतिव्रतां परामर्ष्टुं स्प्रष्टुम् । जन्मप्रातेष्टा जन्मस्थानम् । ‘ प्रतिष्ट स्थानमात्रके ' इति विश्वः ।


मिति धिया स्वजनमनुगन्तुं व्यवसितोद्युक्ता । गुरुसमे पितृसदृशे गुरुशिष्ये ! ततस्तत्रैव राजनिकट एवेत्यर्थः । यदि यथा वदति क्षितिपः ’ इत्यादिना “ आः पुरोभा- गिनि , इत्यादिना च तिष्ठत्युचैर्वदति सति । गुरुसम इत्यनेन शिष्यवचनस्य करणीयत्व- मुच्यते । पुनः पश्चात् वाष्पप्रसरकलुषामुभयत्र न्यक्कारात्परंपराजानितदु:खेनाप्रतिहतनिः- सरणबाष्पेणाविलां दृष्टिम् । क्रूरे कृतकार्यविस्मरणेन दारुणचित्ते । मयीत्यनेन रम्यवस्तु न्यतरेणात्मनोऽवमाननं सूच्यते । यदृष्टेरपणं तत्सविपं झटिति ईप्सितसिद्धयर्थं विष- कल्पं वाष्पं न भवति विषमेवेत्यर्थः । शल्यमिव मां दहति भस्मीभावमन्तरेणापि मां ज्वलयति । जीवितविषये निराशं करोतत्यिर्थः । दृष्टिमित्येकवचनेन दृष्टिद्वयार्पणे सति


१ णाम ( नाम ) इत्यधिकं क० पु० । २ हा इति क० पु० पाठः। ३ अवणीदे १ अपनाता ) अंतेि क० पु० पाठः । ४ उत्सहते इति० ई० पू० पाठः । ५ diहुत अंत क० पु० पाठः ।