पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३६१ )
टीकाद्वयसहितम्।


 सानुमती-( आत्मगतम् ) एव्वं णेदं । एवमेवैतत् |

 राजा–( ध्यात्वा ) सखे, त्रोयस्व माम् ।

 विदूषकः--भो, किं एदं। अणुववण्णं क्खु ईदिसं तुइ । कदा वैि सप्पुरिसा सोअवंत्तव्वा ण होन्ति । णं पवादे वि णिक्कम्पा गिरीओ।[ भोः, किमेतत् । अनुपपन्नं खल्वीदृशं त्वयि । कदापि सत्पुरुषाः शोक्वक्तव्या न भवन्ति । ननु प्रवातेऽपि निष्कम्पा गिरयः ॥

 राजा-वयस्य, 'निराकरणविक्लवाया: प्रियायाः समवस्थाम- नुस्मृत्य बलवदशरणोऽस्मि । सा हि

इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता
मुहुंस्तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे ।
पुनर्दृष्टिं वाष्पप्रसरकलुषामर्पितवती
मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥ ९ ॥


एवमेवैतत् । भोः, किमेतत् । अनौचित्यमित्यर्थः । अनुपपन्नं खल्वीदृशं त्वयिं सर्वदा धीरे राज्ने स्वयं दुप्यन्ते । कदापि सत्पुरुषाः शोकवक्तव्या न भवन्ति । शोके जातेऽन्येन वक्तव्या न भवन्तीत्यर्थः । अप्रस्तुतप्र शंसा । तत्र दृष्टान्तमाह-ननु प्रवातेऽप्यतिशयितवातेऽपि निष्कम्पा गिरयः । विक्लवाया विह्वलायाः । बलवदधिकम् । इत इति । अनु- गन्तुं व्यवसिता प्रयत्नं कुर्वाणा मुहुरनन्तरमुच्चैस्तेष्टेति गुरोः पितुः


परच्छ्लोकत्यनभिज्नतया प्लवमानसथूलवुद्विनेति यावत् । वयस्येत्यादि । निष्कारणनि राकारणविक्लवायाः स्वपरित्यागं प्रति यं कंचित् स्वकृतापराधं विना निराकरणेन दुःख परवशायाः प्रियायाः खाभिलाषविषयभूतायाः समवस्थां स्खनिमित्तकव्यसनाभिभूत शोच्यदशां अनुचिन्त्य प्रत्यादेशसमयजनिततदीयावस्थाभेदान्मुहुर्मुहुर्श्चितयित्वा । वलव दृढम्। अशरणोऽस्मि जीवितधारणे टपायरहितो भवामि । निष्कारणनिराकरणाविक्ल वायाः ग्रियाया इत्यनेन तस्याः साकूतावलोकनमंदगमनादीनामनुभूतत्वात् स्मरणम् । इत इति । इतः स्वस्मात् प्रत्यादेशात् । “ किमिदमुपन्यस्तं व्यपदेशमाविलयितुम् "


१ पारित्रायस्ख इति क पु० पाठः । २ सअपत्तप्पाणो ( शकपात्रात्मानः ) इति क० पु० पाठः । ३ निष्कारण इयधिकं कु० पु° । ४ ततः इति क० पु० पाठः २