पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३६० )
[ षष्ठः
अभिज्ञानशाकुन्तलम् ।


 सानुमती-लदा[१]संस्सिदा देक्खिस्सं दाव सहीए पडिकिदिं । तदो से भत्तुणो बहुमुहं अणुराअं णिवेदइस्सं । ( इति तथा कृत्वा स्थिता ) [ लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतिम् । ततोऽस्या भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि ]

 राजा–सखे, सर्वमिदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम् । कथितवानस्मि भवते च । स भवान्प्रत्यादेशवेलायां मत्समीपगतो नासीत् । पूर्वमपि न त्वया कदाचि[२]त्संकीर्तितं तत्रमवत्या नाम । कच्चिदह[३]मिव विस्मृतवानसि त्वम्[४]

 विदूषकः-- ण विसुमरामि। किंतु सव्वं कहिअ अवसाणे उण तुए परिहासविअप्पओ एसो ण भूदत्थो त्ति आचक्खिदं । मए वि मिप्पिण्डबुद्धिणा तह एव्व गहीदं । अहवा भविदव्वदा क्खु वलवदी । [ न विस्मरामि । किंतु सर्वं कथयित्वावसाने पुनस्त्वया परिहासविजल्प एष न भूतार्थ इत्याख्यातम् । मयापि मृत्पिण्डबुद्धिना तथैव गृहीतम् । अथवा भवितव्यता खलु बलवती ]


लतामण्डप उपहारः पुष्पोपहारस्तेन रमणीयता तया निःसंशयं स्वागतेनेव नोऽस्मान्प्रतीच्छति । तत्प्रविश्य निषीदतु भवान् । लतासंश्रिताद्रक्ष्यामि तावत्सख्याः प्रतिकृतिम् । ततस्तस्या भर्तुर्बहुमुखमनेकप्रकारमनुरागं निवेदयिष्यामि । इदानीं शकुन्तलायाः सर्वं प्रथमवृत्तान्तं स्मरामीति संबन्धः। प्रत्यादेशवेलायां निराकरणसमये । न विस्मरामि । किं तु सर्वं कथयित्वावसाने पुनः परिहासविक (ज) ल्प एष न भूतार्थः सत्यार्थ इतेि । ‘वृत्ते क्ष्मादावृते भूतम्’ इत्यमरः । आख्यातम् । मयापि मृत्पिण्डबुद्धिना तथैव गृहीतम् । अथवा भवितव्यता खलु बलवती ।


विरहिजनविनोदस्थानमुक्तम् । तदुक्तं “ विरहिणां चत्वारि विनोदस्थानानि तत्सादृश्यं तत्प्रतिकृतिस्तदंगसंंस्पृग्वातस्तस्वप्नश्च ” इति । णविसुमरामीत्यादि । मृत्पिंडबुद्धिना


  1. सण्णिाहिदा ( सन्निहिता ) इति क्व० पु० पाठः ।
  2. सुकथासु इत्यधिकं क्व० पु०
  3. किम् इति क्व० पु० पाठः ।
  4. अपि इत्यधिकं क्व० पु० ।