पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३५७ )
टीकाद्वयसहितम्।


 राजा--वेत्रवति, मद्वचनादमात्यमार्यपिशुनं ब्रूहि। १ चिरप्रबोधनान्न संभावितमस्माभिरद्य धर्मासदमध्यासितुम् । यत्प्रत्यवेक्षितं पौरकार्यमार्येण तत्पत्रमारोप्य दीयतामिति ।

 ग्रतीहारो-जं देवो आणवेदि । ( इतेि नेष्क्रान्तः } [ यद्देव आज्ञापयति }

 राजा-वातायन, त्वमपि स्वं नियोगमशून्यं कुरु ।

 कंचुकी--यदाज्ञापयति देवः ! ( इति निष्क्रान्तः )

 विदूषकः-किदं भयदा[१] णिस्माच्छिअं । संपदं [२]सिसिरातवच्छेअरमणीए इमस्सिं पमदवष्णुद्देसे[३] अत्ताणं रमइस्मासि।[ कृतं भवता निर्मक्षिकम् । सांप्रतं शिशिरातपच्छेदरमणीयेऽस्मिन्प्रमदवनोद्देश आत्मानं रमयिष्यसि ]

 राजा[४]--वयस्य, रन्ध्रोपनिपातिनोऽनर्था इति यदुच्यते तदव्यभिचारि वचः । कुतः ।


प्रमदवनं नृपस्तु यस्मिञ्छुद्धान्तैः सह रमते पुरोपकण्डम्’ इति हलायुधः । चिरकालेन प्रबोधनाज्जागरणात् । यद्देव आज्ञापयतीति । वातायनेति कंचुकिनाम । नियोगमधिकारम् । कृतं भन्नता निर्मक्षिकम् । सांप्रतं शिशिरातपच्छेदरमणीये । नाप्यत्यन्तं शिशिरं नाप्यातपः। अस्मिनप्रभदवनोद्देश आत्मानं रमायिप्यसि । रन्ध्रोपनिपातिनः । ‘छिद्रेष्वनर्या


गच्छत इति सारङ्गे अक्षिणी यस्याः सा तथोक्ता । वातयन इति तस्य कंचुकिनो नामधेयम् । वयस्येत्यादि । वयस्यशब्देन त्वमेव प्रकृतदुःखग्रतीकारहेतुर्नान्य इति भावः । तदुक्तं –“ समानशीलव्यसनो गुह्यख्यानैकभाजनम् । विपत्प्रतिक्रियाभिज्ञो त्रयस्यः परैिकीर्तितः ॥” इति । रन्ध्रे छिद्रे स्वास्थ्याभावे सति उपनिपनंतीति ते तथोक्ताः अनर्थाःआपद इतेि यदुच्यते लोकेनेति शेषः । तद्वचः तद्वचनम् । एकवचनेन सर्वलोकैककंठता व्यज्यते । अव्यभिचारि अविपर्यासि अनुभवप्रमाणेनान्यथा न भवतीत्यर्थः । निश्वस्येति । दुःखपरंपराजनितनिश्वासः कंठोक्तः । रन्ध्रोपनिपातिनोऽनर्था इति दैन्यम् ।


  1. दाणिं ( इदानीं ) इत्याधिकं क्व० पु० ।
  2. सिसिरे ( शिशिरे ) इति क्व० पु० पाठः ।
  3. सुहं ( सुखं ) इत्यधिकं क्व० पु° ।
  4. ( निश्वस्य ) इत्वधिकं क्व० पु० ।