पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३५६ )
[ षष्ठः
अभिज्ञानशाकुन्तलम् ।


 सानुमती-णं ईदिसाणि तवस्सिणीए भाअहेआणि ।[ नन्वीदृशानि तपस्विन्या भागधेयानि ]

 विदूषक—( अपवार्य ) लंघिदो एसो भूओ वि सउन्दलावाहिणा । ण आणे कहे चिकिच्छिदव्वो भविस्सदि च । [ लंघित एष भूयोऽपि शकुन्तलाव्याधिना । न जाने कथं चिकित्सितव्यो भविष्यतीति ]

 कंचुकी--( उपगम्य ) जयतु जयतु देवः। महाराज, प्रत्यवेक्षिताः प्रमदवनभूमयः । यथाकाममध्यास्तां विनोदस्थानानि महाराजः ।


न्तहृद्यया शकुन्तल्या प्रतिबोध्यमानमपि । स्वत एव प्रतिबोध उचितः स नास्त्यपि तु प्रयत्नेनापि प्रतिबोध्यमानं सुप्तं मोहमुपागतम् । अत एव हतहृदयं दुष्टहृदयं संप्रत्यधुनानुशयदुःखाय पश्चात्तापदुःखाय विबुद्धम् । अत्र पूर्वार्धे विशेषोक्तिः । अत्र प्रतिबोधाभावस्तद्विरुद्धेन सुप्तपदेनोक्तः । उत्तरार्धे विभावनपेमानुप्रासौ च । नन्वद्दिशानीति राजोक्तानुवादः तपस्विन्या अनुकम्पार्हाया भागधेयाने भाग्यानि ।‘ तपस्वी चानुकम्पार्हः’ इत्यमरः । लंघित एष भूयोऽपि शकुन्तलाव्याधिना शकुन्तलायाः सकाशाद्यो व्याधिस्तेन । अथवा रूपकम् । शकुन्तलैव व्याधिरुद्वेगदायित्वात् । न जाने कथं चिकित्सितव्यो भविष्यतीति । प्रत्यवेक्षिता इति राज्ञो निःशङ्कसंचारार्थं प्रत्यवेक्षणमीति नीतिः ‘विज्ञेयं


अनेनत्मावमानरूपो निर्वेद उक्तः । आत्मन्यक्कारस्य कारणमाह--प्रथममित्यादिना । सारंगाक्ष्या मृगाक्ष्या अनेन पूर्वानुभूततादृशकटाक्षावलोकनादीनां स्मरणं व्यज्यते । प्रिययेत्यनुरागविषयता सूचिता । प्रातेबोध्यमानमपि सुप्तमिति । जाग्रतोऽपि गागवि थथता सूचिता । प्रतिबोध्यमानमपि सुप्तमिति । जाग्रतोऽपि गाढसुप्तदशायामिव प्रतिबोधो न ज्ञात इत्यर्थः । अनेन तत्तादृग्रूपवत्या स्वानुरागाचलंवनभूतया तया तदा तथा प्रतिवोधनेऽपि स्वकृतकार्यस्मरणाभावेनाज्ञानस्य पराकाष्ठोक्ता । तादृशसुखप्राप्तिदशायामज्ञानमेको दोषः संप्रति तदसन्निहितकाले बोधनं तु केवलमनुशयेन दुःखजननाय न तु सुखायेति भावः । पूर्वमज्ञानादकार्यं कृत्वा ततो विवेकात् पश्चात्तापोऽनुशयः । अनुशयदुःखायेत्यनेन तत्संपादनोपायाभावः सूचितः । उपायवत्त्वेऽनुशयाभावात् दुःखजननेन धैर्याभाव उक्तः। धीरस्य महत्यपि विनिपाते दुःखाभावात् । ध्यानमन्दमिति शून्यदृष्टिता कथिता । विषयावलोकनेऽपि तद्विषयप्रवृत्त्यसंभवात् । अथवा सारं मनोहरं