पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३५८ )
[ षष्ठः
अभिज्ञानशाकुन्तलम् ।


 मुनिसुतप्रणयस्मृतिरोधिना
  मम च मुक्तमिदं तमसा मनः ।
 मनसिजेन सखे ग्रहरिष्यता
  धनुषि चूतशरश्च निवेशितः ॥ ८ ॥

 विदूषकः--चिट्ठ दाव । इमिणा दण्डकट्ठेण कन्दप्पवाहेिं णासेस्सं[१] । ( इति दण्डकाष्ठमुद्यम्य चूतांकुरं पातयितुमिच्छातेि ) [ तिष्ठ तावत् । अनेन दण्डकाष्ठेन कन्दर्पव्याधिं नाशयिष्यामि |


बहुलीभवन्ति’ इत्युक्तेः । मुनीति । मुनिसुतायां शकुन्तलायाम् । राज्ञो मुनिसुतात्वनं प्रत्यभिज्ञानात्तथोक्तिः । यः प्रणयः प्रेम तस्य स्मृतिस्तस्या रोधिना तमसा मोहेनेदं [ मम ] मनो मुक्तम् । प्रहरिष्यत मनसिजेन कन्दर्पेण धनुषेि चूतशरो निवेशितश्च । मम तद्वियोगो वसन्तकालश्च प्रादुरभूदित्यर्थः । चावेककालत्वं द्योतयतः । समुच्चयालंकारः । भोजेन तु ‘अदृष्टादापि स्मरणे स्मरणालंकारः’ इत्युक्त्वा तदलंकार इदमुदाहृतम् । अनुप्रासश्च । द्रुतविलम्बितं वृत्तम् । तिष्ठ तावत् । अनेन दण्डकाष्ठेन कन्दर्पव्याधिं नाशयामि । कन्दर्परूपो व्याधिर्य-


तदेवोपपादयति मुनिसुतेत्यादिना । मुनिसुतेत्यनेन शापानुग्रहाभ्यां सद्य एवानिष्टः शुभजनकश्यपाधीनतया तक्षकशिरोरत्नप्राप्तिरिव दुर्लभस्त्रीरत्नप्राप्तिः सूच्यते । तादृश्याः ग्रणयः गाढानुराग: तस्य स्मृतिः वस्तुसौन्दर्यवलात् गाढानुभवाच्च सार्वकालिकस्मरणं तद्रोधिना संस्थारपर्यंतं प्रतिबन्धकेन तमसा अज्ञानेन । इदं यन्मनस्तया प्रतिबोध्यमानमपि कृतकार्यस्मररणाभावात् स्मरणरहितं तादृगिदं मन इति तस्मिन्निंदा व्यज्यते । मुक्तं परित्यक्तम् । तदा ग्रणयविशेषकृतसंभोगदिविविधक्रियाः स्मर्यंत इति भावः । अत एव ग्रहरिष्यता मनसिजेन सदा सन्निहितेनेत्यर्थः । अनेन मदनस्य प्रावल्यमुक्तम् । चूतशरश्च निवेशित इति अमोघास्त्ररूपत्वेनातिशय उक्तः । धनुषि गोप्यभावेऽपि प्रयोक्तुः प्रयोगाहार्युधविशेषभूतचापे निवेशितः स्थापितः । परमोद्दीपकोद्यानचूतकलिकादर्शनाच्चरमावस्थैव भविष्यतीति भावः । चिट्ठेत्यादि । पूर्वं वयस्वशब्दप्रयोगेण त्वमेव भदनजनितप्रकृतदुःखनिरसनकरणकुशल इति राजवचनस्य दंडकाष्ठप्रहारेण विनान्यदुपायान्तरं न जानामीत्युत्तरं दत्तमिति भावः । कंदर्पव्याधमिति मदनस्य किरातोपमानेन


  1. णासेमि ( नाशयामि ) इति क्व० पु० पाठः