पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३४७ )
टीकाद्वयसहितम्।


 कंचुकी--मा तावत् । अनात्मज्ञे, देवेन प्रतिषिद्धे वसन्तोत्सवे त्वमाम्रकलिकाभङ्ग किमारभसे ।

 उभे--( भीते ) पसीददु अज्जो । अग्गहीदन्थाओ वअं । [ प्रसीदत्वार्यः । अगृहीतार्थे आवाम् ]

 कंचुकी--न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य शासनं प्रमाणीकृतं तदाश्रयिभिः पत्रिभिश्च । तथाहि ।

 चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः
  संनदं यदपि स्थितं कुरबकं तत्कोरकावस्थया ।
 कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतं
  शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टं शरम् ||४||


कञ्चुकिनः सूचनाभावादपटीक्षेपेण प्रवेशः । तत्र कुपितत्वं हेतुः । कंचुकिलक्षणं पूर्वमुक्तम् । मा तावदिति भिन्नं वाक्यं निषेधे | अनात्मजे स्वभावानभिज्ञे । देवेन प्रकरणाद्राज्ञा दुष्यन्तेन । किमारभसे किमर्थमारम्भं करोषि । त्वयाप्यधुनारम्भ एव क्रियते सोऽपि किमर्थमिति भावः । इदमेव कोपकारणम् । प्रसीदत्वार्यः । अगृहीतार्थे अगृहीतनिषेधवस्तुस्वरूपे आवाम् । वासन्तिकैरेतत्कालोद्गपुष्पैस्तरुभिरपि । चेतनैस्तु प्रमाणीकृतमेव । अचेतनैरपीत्यपिशब्दार्थः । शासनमाज्ञा । शासनं नृपदत्तोर्व्यां शास्त्रज्ञालेखशास्तिषु ’ इति हैमः । प्रमाणीकृतमिति गम्योत्प्रेक्षा । वक्ष्यमाणानां वस्तुस्वाभाव्यादेव तथात्वात् | अथवासंबन्धे संबन्धरूपातिशयोक्तिश्च । राजाज्ञायास्तत्त्वतोऽसंबन्धात् । तदेव दर्शयति-तथाहीति । चूतानामिति । चूतानां कलिका मञ्जरीति ।


अगृहीतार्थे अगृहीतः सर्वकालिकोद्यानावस्थानादनवगतः अर्थः निमित्तं याभ्यां ते तथोक्ते । वासंतिकैः वसंतसंबंधिभिः जयप्रदानदोहनादिराहित्येऽपि निखिलवृक्षलतानां प्रसरन्नूतनकिसलयकुरपुष्पोत्पत्त्यादिकारणभूतवसंतकासंवधिभिरिति भावः । तरुभिर्वृक्षैः स्थावराचेतनरूपैरिति यावत् । बहुवचनेन बहुस्थलप्रदर्शनेन मद्वचसि विश्वासो विधेय इति व्यज्यते । तदाश्रयिभिः तदुपजीविभिः पत्रिभिः पक्षिजातिभिरपति यावत् । प्रमाणीकृतम् । “राजा कालस्य कारणम् " इति धिया तरुभिस्तदुपजीविभिरप्यंगीकृतम् । चूतानामित्यादि । चूतानां वसंतप्राणभूततया मदनतूणीररूपात्रवृक्षाणम् । बहुवचनेन


१ यथा इति क० पु० पाठः ।