पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३४८ )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


जात्यभिप्रायेणैकवचनम् । कलिकाशब्दो वाधितमुख्यार्थोऽभिनवोद्गतसाधर्म्यान्मञ्जरीं लक्षयते । अविकासितत्वं च फलं ज्ञेयम् । चिरनिर्गता शिशिरन्तप्रोद्भिन्नापि स्वं स्वीयम् । आत्मीयमिति यावत् । अत्यावश्यकत्वं ध्वनितम् । रजः परागं न बध्नाति । न दृष्टं करोतीत्यर्थः । यथा काचन बालाप्रौढतया रजोदर्शनं न यातीति समासोक्तिरपि। संनद्धमपि वृन्ताद्बहिर्निर्गतमपि । संनद्धशब्दो बाधितमुख्यार्थः सन्यः संनद्धः स युद्धाय बहिर्निर्गच्छतीति बहिर्निर्गमनसाम्यात्कुरबकं लक्षयन्नतिशोभावत्वं ध्वनति । यत्कुरबकं शोणकुरण्टकं पुष्पमिति जातावेकवचनम् । ‘तत्र शोणे कुरबकः ’ इत्यमरः । तत्कोरकावस्थया कलिकावस्थया स्थितम् । अत्र कोरकत्वं न जहातीति कार्याभावे वक्तव्ये तद्विरुद्धत्वेनोक्तिः । गतेऽपि शिशिरे वसन्तारम्भसमये पुंस्कोकिलानां रुतं शब्दितं कण्ठेषु स्खालितम् । तथास्फुटः कोकिलस्वनो जात इत्यर्थः । अत्र च चिरानिर्गतादेः


वृक्षदोषात् क्वचित्कैककोरकविकासभावो न किंतु सर्ववृक्षाणां देवशासनांगीकारः सूच्यते । कलिकापरमोद्दीपकतया विरहिजनवधब्रह्मास्त्ररूपः कोरकः एकवचनेनाद्वितीयतया पुष्पत्वसजातीयोत्कृष्टता ध्वन्यते । चिरनिर्गतेति । चिरपदोपादानेन चूतकलिकायाः सकलपुष्पराजतया धीरोदात्तप्रकृतिवत् हठाद्विकासाभावोऽवगम्यते । चिरनिर्गततादृशकोरकः स्वं स्वकीयं कालप्राप्तमिति यावत् । रजः विरहिलोकस्फुलिंगकल्पं न बध्नाति न प्रकटयति । वर्तमानव्यपदेशेन प्रत्यक्षानुभवः प्रकाश्यते । कलिकायाः मदनविकारजनकस्वनिर्गमप्रयोजनं विकासाभावान्न भवतीति भावः । यत्कुरबकं वसंतदेहभूततया मदनस्य द्वितीयतूणीरभूतकुरबककुसुमं सन्नद्धमपि मदनविकारप्रतिबंधकचिरमुकुलभावसहिष्णुतयेव विकासोन्मुखमपि कोरकावस्थया स्थितम् । विकसनराहित्येन मदनविकाराजनकतया शाणादावनुल्लीढातीक्ष्णशरभावेन चापेऽप्रयोगानर्हतया स्थितमिति भावः । भिन्नजातीयकुसुमशरावस्थानतूणीरभूताम्रकुरबकवृक्षद्वयोपादानेन मदनस्य सव्यसाचित्वं ध्वन्यते । शिशिरे जलक्रीडांगलेपनाद्यनुचितशिशिरर्तौ । कोकिलपंचमस्वरोद्गमप्रतिबंधकसमय इति यावत् । पुंस्कोकिलानां मदनस्य निर्गमनसंचारबुद्धादितत्तत्कालोचितजंगमवीरवाद्यभूतानां रुतं कूजितं स्खलितम् । उत्पत्तिसमये पंचमस्वरशून्यं गद्गदितं स्मरोऽपि निरर्गलव्यापारोऽपीत्यर्थः। तूणर्धकृष्टं प्राप्तकालसामग्रिलक्ष्यतया धनुष्यनुसंधानात् तूणीरभूतचूतकुबरकाभ्यां निर्गलितयोरपि कलिकाकुसुमयोर्विकसनरजोमकरंदप्रादुर्भावराहित्येन मदनविकारभावादर्धाकृष्टत्वमुत्प्रेक्षितम् । शरं दूराद्दूरलक्ष्यवेधनसमर्थं बाणम् । चकितः रूपलावण्यादिना स्वाधिकदुष्यन्ताज्ञापरिपालनधिया भीतः । संहरति भीत्या सर्वांगकंपहस्तशैथिल्यधैर्याभावादिभिः