पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३४६ )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


( प्रविश्यापटीक्षेपेण कुपितः )


गृहीतधनुषे । गृहीतधनुष इत्यनेन सर्वदा सज्जत्वं ध्वनितम् । पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव । अत्र पञ्चाभ्यधिकत्वे शरस्यासंबन्धे संबन्धलक्षणातिशयोक्तिः । अपटीक्षेपेणेति तिरस्करिणीतिरस्कारेणेत्यर्थः । ‘ नासूचितस्य पात्रस्य प्रवेशो निर्गमोऽपि च । इत्युक्तेरत्र


शरत्कारो विहितः तद्वत् भुवनत्रयविजिगीषोः कामस्यापि मलयमारुतकोकिलालापादिसामग्रीसंपत्तिमद्वसंतकाल एव समुचितसमयः । अत एव युद्धार्थं चापग्रहणमिति यावत् । कामाय विरहिजनान्तकभूताय मयेत्यनेन स्वस्याः स्त्रीत्वादात्मगौरवसंरक्षणार्थं नायकनिमित्तकासांमुख्यासंभाषणाXहस्यश्रवणाचुम्बनादिजनितासह्यांतर्दुःखानुभवज्ञानवत्या मयेति यावत् । दत्तः स्त्रीपुंसयोः संघटने कामस्यैवासाधारणप्रभुत्वं निश्चित्य बुद्धिपूर्वकं समर्पितः । दानप्रयोजनमाह । परीत्यादि । परितः नायककृतचाटूक्तिपादपतनादिसर्वानुनयप्रकारेणापि कुपिता मानेर्ष्यावती युवतिः यौवनमध्यवर्तिनी लक्ष्यं समुचितं शरव्ययस्याभेद्यभेदकशरस्य स तथोक्तः । पंचाभ्यधिकः स्वेन सहारविंदाशोकनवमल्लिकानीलोत्पलेषु पंचसु अभ्यधिकः “ समानानामुत्तमश्लोको अस्तु " इति न्यायेन श्रेष्ठः अमोघव्यापार इति यावत् । शरो भव मृदुत्वरूपकुसुमभावं विहाय मर्मभेदनसमर्थतीक्ष्णतरलोहादिमयसाधको भव । अनेन चूतव्यतिरिक्तारविंदादिचतुर्णां वसंतव्यतिरिक्तसमयेषु परिकुपितयुवतिमानखंडनसामर्थ्याभावादुद्यानपालिकायास्तेषु सुकुमारकुसुमत्वप्रतीतिः सूच्यते । इतः परं वसन्ते प्राप्ते चूतांकुरप्रादुर्भावात् युवत्या मानरक्षणं कर्तुं न शक्यमिति भावः ( व्याख्यानान्तरं ) चूतांकुरेत्यनेन अत्युद्दीपकतया अमोघास्त्रत्वमुच्यते । गृहीतधनुष इत्यनेन विद्यमानशराणां कुंठितत्वात् समर्थशरप्रतीक्षयः केवलधनुष्पाणिः सन् तिष्ठतीति व्यज्यते । मया दत्तोऽसीति । वर्तमानव्यपदेशेन नूतनत्वप्रतीत्या अनुपक्षीणसामर्थ्ये व्यज्यते । परिकुपितयुवतिलभ्य इति । परिकुपितयुवतिः लक्ष्यं शरव्यं यस्य स तथोक्तः पंचाभ्यधिकः पंचभ्यः शरेभ्योऽभ्यधिकः व्यतिरिक्तः साध्यसाधक इत्यर्थः । भवेति विधौ लोट् । अयमभिप्रायः राजप्रतिरुद्धवसंतोत्सवमज्ञातवती उपवनेऽपि वसंतकाले मदनप्रचाराभावात् मदनस्य शराः सर्वे मोघा इति मत्वा त्वं पंचभ्यः शरेभ्यो व्यतिरिक्तः साध्यसाधको भवेत्युक्तवती । साधकत्वं कुपितनायिकानायकयोर्मेलनकरणम् । अत्र केनचित्, पंचाभ्यधिक इत्यत्र पंचसु शरेषु अभ्यधिकः श्रेष्ठ इति व्याख्यायि तदसंगतम् । तथा सति गृहीतधनुष इत्यनेन केवलं धृतः चापः सन् त्वां प्रतिपालयति तस्मात् त्वद्व्यतिरिक्तेभ्यश्चतुर्भ्यः शरेभ्यः श्रेष्ठो भवेत्येतादृशार्थो लभ्यते । तथा चेन्मदनस्य कादाचित्कपंचशरत्वापत्तिः तथाभ्युपगमे यास्मिन् ऋतौ पंचस्वेकमपि प्रसूनं नास्ति तदा पंचशरत्वानुपपत्तिः । प्रविश्येत्यादि । पटाक्षेपेण यवनिकापनोदनेन ।


१ पदाक्षेपेण इति क० पु० पाठः ।।