पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३२४ )
[ पंचमः
अभिज्ञानशाकुन्तलम् ।

 शार्ङ्गरवः--इत्थमात्मकृतं परिह[१]तं चापलं दहति ।
  अतः परीक्ष्य कर्तव्यं विशेषात्संगतं रहः ।
  अज्ञातहृदयेष्वेवं वैरोभवति सौहृदम् ॥ २४ ॥

 राजा--अयि भोः, किमत्रभवतीप्रस्ययादेवास्मान्संयुत[२]दोषाक्षरैः क्षिगुथ ।


आत्मकृतं चापलं कदाचिद्दैवानुकूल्येन सम्यक्तया परिणमति । परिहतं केनाचद्रुद्धं सद्दहति । अत इति । अतः कारणात्संगतं भैत्र्यं परीक्ष्य कर्तव्यम् । रह एकान्ते संगतं विशेषात्परीक्ष्य कर्तव्यमित्यनुषज्यते । अत्र शकुन्तलादुष्यन्तयोः संगतस्य कर्तव्ये विशेषे प्रस्तुते यत्सामान्यसंगतमात्रस्याप्रस्तुतस्य वचनं साप्रस्तुतशंसा । अज्ञातहृदयेषु व्यवहारादिनाज्ञातचित्तेषु सौहृदं मैत्री वैरीभवति । अयं वैधर्म्येणार्थान्तरन्यासः अत्रभवतीप्रत्ययात्पूज्याविश्वासात् । भवद्धियेयं पूज्यैव । तद्वचनविश्वासादित्यर्थः। एवकारेण युक्त्यन्तरनिरासः । अस्मानितिं पुरुवंशोत्पन्नान्सर्वधर्मनिष्ठानिन्द्रादिभिरप्युपचारेण गृहीतानित्यादिधर्मशतं व्यनक्ति । सम्यक्, न त्वीषत् । युतः संपृक्तः, न तु स्मृष्टः दोषो येषु तान्यक्षराणि येषु वचनेषु


इदं परिणयरूचरतं न लक्ष्यते न केनापि प्रमाणेनावगम्यते अस्य पुरुवंशस्य । इत्थमित्वादि । इत्थननुभूयमानप्रकारेण आत्मकृतं पित्राद्यनुज्ञां विना स्वकृतं चापम् अनालोचितं कर्म । अत इति । अतः उक्तकारणात् कर्तव्यं कर्तुमर्हं कर्म परीक्ष्य इष्टजनैः सह्यलोच्य कर्तव्यम् । रहःसंगतम् एकान्तसंगमः विशेषात् विशेषेण परीक्ष्य अनेन सभमिद योग्यमयोग्यं वेति नानाप्रकारेण चिचर्य कर्तुमुचितम् । वैपरीत्ये दोषं दर्शयति अज्ञातहृदयेषिति । "शीलं संवसता ज्ञेयं तच्च कालेन भूयसा" इत्यनवगतस्वरूपेषु जनेषु सौहृदं मैत्रम् । एवं राजनि यथा तथा वैरी भवति तदप्यहितं भवतीत्यर्थः । अयीत्वादि । अत्रभवती प्रत्ययादेव शकुन्तला वचनमात्रविश्वासादेव । एवकारेण वचनाविश्वासमात्रमेवान्यत् ज्ञापकप्रमाणान्तरं नास्तीत्वर्थः । क्षिणुथ नाशयथ दूपयथेत्यर्थः । अनेन ओजो नाम सन्ध्यंगमुक्तम् । तदुक्तं "अधिक्षेपाद्यसहनमोजः प्राणात्ययेष्वपि " इति । अत्र राज्ञा शार्ङ्गवाधिक्षेपासहनमयि भो इत्याक्षेपोक्त्या प्रकटीकृतम् ।


  1. चापलमप्रतिहतमात्मानं इति क्क० पु० पाठः।
  2. संभृतरोषाक्षरेण वचसा इति क्क० पु० पाठः ।