पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ५]
(३२५)
टीकाद्वयसहितम्।

 शाङ्गरवः-( सासूयम् ) श्रुतं भवद्भिरधरोत्तरम् ।

  आ जन्मनः शाठ्यमशिक्षितो य-
   स्तस्याप्रमाणं वचनं जनस्य ।
  परातिसंधानमधीयते यै-
   र्विद्येति ते सन्तु किलाप्तवाचः ॥ २५ ॥

 राजा-भोः सत्यवादिन्, अभ्युपगतं तावदस्माभिरेवम् । किं पुनरिमामतिसंधाय लभ्यते ।


तैर्वचनौरिति विशेष्यमुन्नेयम् । क्षिणुथ हिंस्य । अधरं हीनं च तदुत्तरं चाधरोत्तरम् । स्वदोषाज्ञानादिति भावः । अधरमधस्तात्प्रथममिमुत्त रमूर्ध्वं न किंचिदिष्यतीति (?) न ज्ञायत इति भावः । 'अधरो दन्तवसनेऽनूर्ध्वे हीनेऽधरोऽन्यवत्' इति विश्वः । आ जन्मन इति । यो जनआ जन्मनो जन्मन आरभ्य शाठ्यं धौर्त्यमशिक्षितः । स्वेनान्येन वेत्यर्थः । तस्य जनस्य वचनमप्रमाणम् । यैर्जनैः परातिसंधानं परवञ्चनं विद्येति विद्यरूपत्वेन । यथा विद्या सद्वरोः सत्संप्रदायासुदिने मङ्गलपूर्वकमनध्यायनिवृत्तिपूर्वकं नियतात्मभिस्तद्वदियमप्यधीयते । न तु शिक्ष्यते त आप्तवाचः सत्यवचनाः । किलेति संभावनायाम् | 'किलशब्दस्तु वर्तायां संभाव्यानुनयार्थयोः' इति विश्वः । अत्र शकुंतलावचनं सत्यं दुष्यन्तवचनमसत्यमिति विशेषे प्रस्तुते यत्सामान्यवचनं सा वैधर्म्येणाप्रस्तुतप्रशंसा । अथवाप्रमाणमापि तु न, त आप्तवाचोऽपि तु नेति काकौ साधर्म्येणैवाप्रस्तुतप्रशंसा । रूपकानुप्रासौ च । चतुर्थ्युपजातिः । 'शाकुन्तला-सुष्टु दाव' इत्ये ( त्याद्ये ) तदन्तेन द्रवो नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु-'गुरुव्यतिक्रमो यस्तु विज्ञेयोऽथ द्रवस्तु सः’ इति । सत्य बादिन्निति सोलुण्ठनम् । अतिसंधाय वञ्चयेित्वा 'राजा-भोः सत्यवा-


श्रुतमित्यादि। अधरोत्तरम् । अधरस्य निकृष्टस्य ममेत्यर्थः । उत्तरं प्रतिवचनम् । भवद्भिरिति बहुवचनमुपहासे । अहं निकृष्टस्त्वमेत्र पूज्य इत्यर्थः । तदेवाह-आजन्मन्-इत्यादि । आजन्मनः जन्मारभ्य शाठ्यं परवंचनाचातुर्यम्। अशिक्षितः अरण्यवासित्वाद्दुष्टजनसहवासाभावादनुपदिष्टः तस्य तादृष्रागद्वेषादिरहितस्य जनस्यानागरिकस्य वचनमप्रमाणं प्रमेयनिश्चायकं न भवति । परातिसंधानं 'रत्नहारी तु पार्थिवः' इति न्यायेन परवंचनं यैर्विद्येति जीवनोपायशास्त्रमिति अधीयतै पठ्यते ते किल त एव आप्तवाचः प्रमाणगिरः संतु भवंत्वित्यर्थः । सत्यवादिन्निति । तपस्वी भवान् कथमसत्यं वदतीत यावत् ।