पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ५]
( ३०७ )
टीकाद्वयसहितम्।


 ऋषयः--स्वाधीनकुशलाः सिद्धिमन्तः । स भवन्तमनामयप्रश्नपूर्वकमिदमाह ।  राजा--किमाज्ञापयति भगवान् ।

 शार्ङ्गरवः--यन्मिथः समयादिमां मदीयां दुहितरं भवानुपा- यंस्त तन्मया प्रीतिमता युवयोरनुज्ञातम् । कुतः ।

 त्वमर्हतां प्राग्रसरः स्मृतोऽसि य
  च्छकुन्तला मूर्तिमती च सत्क्रिया ।
 समानयंस्तुल्यगुणं वधूवरं
  चिरस्य वाच्यं न गतः प्रजापतिः ॥ १५ ॥


तापयुक्तत्वादिति भावः ( ?) । योकानुग्रहाय जनानुग्रहाय । भुवनानुग्रहाय चेत्यर्थः । ' लोकस्तु भुवने जने ' इत्यमरः । त्रिभुवनानुग्राहकत्वेन लोकोत्तरा तपःसिद्धिर्ध्वनिता । तदभिप्रायेणैवोत्तरयन्ति - स्वाधीनेति । अनामयप्रश्नपूर्वमितेि तस्य क्षत्रियत्वात् । तदुक्तं भृगुसंहितायाम्-- 'ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च } 'इति मिथःसमयात् । गान्धर्वेण विवाहेनेत्यर्थः । उपायंस्त विवाहितवान् । ‘उपाद्यमः स्वीकरणे ' इत्यात्मनेपदम् । त्वमिति । यद्यस्मात्त्वमर्हतां पूज्यानां प्राग्रसरो


ब्दार्थवान् । यद्यपि राजशब्दो राजृ दीप्तवित्यर्थात् कनिन्प्रत्ययान्तः नतु रंजेः । तथापि धातूनामनेकार्थत्वादुपपद्यते । अथेति प्रश्ने । कुशलीति । कुशलप्रश्नस्तु «" ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शङ्कमारोग्यमैव च ॥ " इति मनुवचनादित्यवगंतव्यम् । यन्मिथ इत्यादि । मिथः समयात् परस्परकृतसंकेतात् गांधर्वविवाहादिति यावत् । इमामनागरिकाम् । दुहितरं वात्सल्यविषयभूताम् । भवान् सकलवर्णाश्रममर्यादापरिपालको राजा भवानित्यर्थः । भवच्छब्दप्रयोगस्तु जामातृभूतदुष्यन्तं प्रति पूज्यवाचकः । उपायंस्तेति यत् तत्कर्म मयेत्यनेनारण्यवासित्वादनुरूपचरसंघटनार्थे नानदेशभ्रमणकरणासमर्थेन मयेति व्यज्यते । नीतिमता अनायासेन अनुरूपवरप्राप्त्या परितोषवता । प्रीतिकरणे उभयोरनुरूपत्वमेव हेतुरिति यावत् । अत एवोक्तं उभयोरिति । एतदेव विशदयति--तत्तस्माद्धेतोरनुज्ञातमिति । कुत इत्यादिना । त्वमिति । अर्हतां कुलाभिज्ञादिमतां पूज्यानां प्राग्रसरः मुख्यतमः।


१ नः इति क्वo पु० पाठः। २ इव इति क्व० पु० पाठः । ३ चिराय इति क्व० पु० पा