पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३०६ )
[ पञ्चमः
अभिज्ञानशाकुन्तलम् ।


 शकुन्तला-( हस्तमुरसि कृत्वा ।आत्मगतम् ) हिअअ, किं एव्वं वसि । अज्जउत्तस्स भावं ओहारेिअ धीरं दाव होहि । [ हृदय, किमेवं वेपसे । आर्यपुत्रस्य भावमवधार्य धीरं तावद्भव ॥

 पुरोहितः--( पुरो गत्वा ) एते विधिवदर्चितास्तपस्विनः । कश्चिदेषामुपाध्यायसंदेशः । तं देवः श्रोतुमर्हति ।

 राजा--अवाहितोऽस्मि ।

 ऋषयः--( हस्तानुद्यम्य ) विजयस्व राजन् ।

 राजा–सर्वानभिवादये ।

 ऋषयः--इष्टेन युज्यस्व ।

 राजा--अपि निर्विघ्नतपसो मुनयः ।

 ऋषयः

  कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि ।
  तमस्तपति घर्मांशौ कथमाविर्भविष्यति ॥ १४ ॥

 राजा--अर्थवान्खलु मे राजशब्दः । अथ भगवांल्लोकानुग्रहाय कुशली कण्वः ।


णेनीयमद्रष्टव्यम् । हस्तमुरसि कृत्वेति स्वभावोक्तिः । हृद्य, किमेवं प्रवेपसे । आर्यपुत्रस्य भावं चित्ताभिप्रायमवधारय (र्य ) धीरं तावद्भव । कुत इति । त्वयि रक्षितरि सति कुतो धर्मक्रियाविघ्नः। सर्वमेत्द्विधेयम्। त्वं रक्षिता । त्वयि रक्षितरि सर्वे सन्तः । तेषां क्रियामात्रविघ्नोऽपि न संभाव्यते सुतरां धर्मक्रियाविघ्न इत्यर्थः । तम इति । घर्मांशौ सूर्य उदयाद्रिमारूढ एव तमोनाशः । अपि तु तस्मिन्सुतरामाविर्भावाभाव(?) इत्यर्थः । दृष्टान्तालंकारः । हेत्वनुप्रासौ । अर्थवान्सप्रयोजनः ।


भवतीत्यंगीकारे । सकलजनस्पृहणीया तादृशाकृतिरेवेत्यंगीकारः । हिअएत्यादि । भावोऽभिप्रायः परकलत्रमिति सामान्येनोक्तत्वात् मा वेपस्वेति यावत् । कुत इत्यादि। सतां सज्जनानां न दुष्टानाम् । रक्षितरि परिपालके । अर्थवान् रंजनाद्राजेति राजश


१ हावं अणवदारिअ (भावमनवधार्थ) इति क्व० पु० पाठः । २ देव इत्यधिकं क्व० पु०। ३ अस्ति इत्यधिकं क्व० पु० ॥ ४ हस्तम् इति क्वo पु० पाठः । ५ अखिलानभिवादये वः इति क्व० पु० पांठः। ६ स्वस्ति भवते इत्यधिकं क्व० पु० ।