पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३०४ )
[ पंचमः
अभिज्ञानशाकुन्तलम् ।


प्रतीहारी-देव, पसण्णमुहवण्णा दीसन्ति । जाणामि विस्सद्धकज्जा इसीओ [ देव, प्रसन्नमुखवर्णा दृश्यन्ते'। जानामि विश्रब्धकार्या ऋषयः ]
राजा--( शकुन्तलां दृष्ट्वा ) अथात्रभवती
का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या ।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥ १३ ॥

चूतप्रभृतयो विशेषा लक्ष्यंते । तत्सजातीयबहुत्वप्रतिपत्तिश्च फलेषु वनस्पतिप्रभृतिषु । तदभावादर्थसंगतिः । किं च सत्पुरुषाणां विशिष्टानामेवोमेयत्त्वात्तैः सहोपमानतापि न संगच्छते । तर्ह्युत्तरवाक्येऽप्येतद्दोषावकाश इतेि चेन्न । मेघादिपदत्यागेन घनपदोपादानात् । तथा च व्याख्यास्यते । केचनैतादृशस्थले ‘वाच्य एवार्थो न लक्षणा ' इति मन्यंते | घना मेघा अथ च नि'बिडाः। नवाम्बुभिरिति वर्षाकालारम्भो ध्वन्यते । तेषां तत्रैव समृद्धत्वाद्दूरोवलिम्बनोऽतिशयवर्षुकाः | अथ च विनीता भवन्तीत्यनुषज्यते । अत्र तरुघनयोरचेतनयोर्नम्रत्वाभ्यां (त्व ) दूरविलम्बित्वाभ्यां च वस्तुतो भिन्नाभ्यामभेदेनाध्यवासिताभ्यामतिशयोक्तिः । सत्पुरुषाः समृद्धिभिरनुद्धता नम्रा भवन्तित्यनुषज्यते । तेन क्रियाद्वीपकम् । विनयस्य साधारणधर्मस्य नम्रदूराविलम्ब्यनुद्धतशब्देनोक्तेर्माला परिवर्तूपमा च । अत्र दुष्यंतलक्षणे विशेषे प्रस्तुते सत्पुरुषस्य वचनादप्रस्तुतप्रशंसापि । स्वभाव इयादिस्तु ह्रिशब्दानुपादानेऽप्यर्थांतरन्यासः ।‘क्व नासि शुभप्रदः’ इतेिवत् । हेत्वनुप्रासौ च । वंशस्थवृत्तम् । देव, प्रसन्नमुखवर्णा दृश्यंते । जानामि विस्रब्धं शांतमक्रूरं कार्यं येषां ये तादृशा ऋषयः । विस्रब्धस्तूद्भटे व्यर्थे शान्तविश्वस्तयोरपि ’ इति विश्वः । का स्विदिति । स्विदिति वितर्के । ‘ विदिति प्रश्ने


अथात्रभवतीत्यादि । अत्रभवती सुशीला अनेनागमनसमये शकुन्तलायाः नम्राननत्वं परपुरुपनिरीक्षणाभावश्च राज्ञा सूच्यते । तत्राप्यवगुंठनवतीत्यनेन तापसस्त्री न भवति कन्या काचिदिति सूच्यते । तापस्याः सर्वत्र समबुद्धिभावेन विकाराद्यभावादवगुंठनमनुचितमिति यावत् ।, तत्रापि नातिपरिस्फुटशरीरलावण्येत्यनेनापन्नसत्वेति व्यज्यते । आसन्नप्रसवसमयतया शरीरलावण्यमत्यर्थे न दृश्यत इति भावः । एतादृश्याः


१ राअ विअ इसिणो ( रागा इव ऋषयः ) इति क्व० पू० पाठः । २ ता (तस्मात्) २ इत्यादिकं क्व० पु०