पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ५]
( ३०५ )
टीकाद्वयसहितम्।


प्रतिहारी–देव, कुतूहलगब्भोपहिद ण मे तक्को पसरदि । णं दंसणीञा उणसे आकिदी लक्खीञदि। [देव,कुतूहलगर्भोपहित न मे तर्कः प्रसरति । ननु दर्शनीया पुनरस्या आकृतिर्लक्ष्यते ॥
राजा--भवतु । अनिर्वर्णनीयं परकलत्रम् ।

वितक च' इत्युक्तेः । सशिरोमुखप्रावरणमवगुण्ठनं तद्वती । अत एव नातिपरिस्फुटे शरीरलावण्ये यस्याः सा । नञ्समासः ! इदमनूद्यम् । तपोधनानां मध्ये का स्विदितेि विधेयम् । अत एवैतन्मात्र उपमा । पाण्डुपत्राणां मध्ये किसलयं कोमलपल्लवमिवेति । अस्याश्च भिन्नलिङ्गत्वेऽपि कोमलत्वादेः साधारणधर्मस्य गम्यत्वात्सहृदमनोनुरञ्जकत्वमेव । हेत्वनुप्रासः । ननु नातिपरिस्फुटेत्यादौ शरीरमात्रग्रहणेऽप्युभयलाभ इति चेत्सत्यम् । स्यादेवं यदि निषेधमात्रे तात्पर्यं स्यात्किन्त्वत्र विधौ तात्पर्यम् । अत एवातिपर्योरुपादानम् । तेनेषद्व्यक्ते इत्यर्थः। अत्र चोभयग्रहणमन्तरेण विवक्षितार्थालाभात् । यत आद्यमात्रोपादाने द्वितीयाप्राप्ते द्वितीयमात्रग्रहणे कनकचम्पकामतनुवर्णाप्तेः । लावण्यलक्षणं सुधाकरे । 'मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु लावण्यं तदिहोच्यते ॥' इति एवंभूतैतदवलोकनेन स्थायिन्या रतेरनुसंधानम् । देव कुतूहलेन गर्भे मध्य उपहितो युक्तो न मे तर्कः प्रसरति | त्वत्परिगृहीतेन पूर्वत्वेन कुतूहलगर्भत्वं प्रभुसमक्षत्वात्तुन्यानातत्वं (?) चाप्रसरणे हेतुः । क्वचिद्रतपुस्तके ‘कुतूहलगल्भोपहृद् इत्यादि पाठः । क्वकित्पुस्तके तु नास्त्येवायं पाठः। ननु दर्शनीया सुन्दरा पुनरस्य आकृतिर्लक्ष्यते । भवत्विति निषेधे । “ अस्तु भवतु पूर्यत इति निषेधे ’ इत्युक्तेः । अनिर्व


खनिकटमागमनं किमर्थंकमिति । काखिदिति वितर्के । अत्र दृष्टान्तमाह-किसलयमित्यादिना । पांडुपत्राणां रागरहितशुष्कपर्णानां मध्ये किसलयमिव कोकिलादिभिः स्पृहणीयं रागयुक्तपल्लवमिव । देवेत्यादि । तर्को विचारः । कुतूहलगर्भः । अरण्ये परिमिताहारादिक्लिष्टतपस्विनामेतादृशरूपलावण्याद्यतिशयवत्या सहागमनजनिततर्कस्ताश्चर्यगर्भ इति यावत् । तदेव विशदयति-दर्शनीयेति । दर्शनीया स्पृहणीया । निरुपपदेन स्त्रीणामपि वस्तुसौंदर्यबलात् स्पृहणीयेति व्यज्यते । नतु पुरुषाणामेवेति भावः ।


१ गल्भो मे तक्को पसीददि ( गर्भो मे तर्को प्रसीदति ) इति क्वo डo पाठः ।। २ अनिर्वर्ण्यम् इति क्व पु पाठः ।